________________
शास्त्रवार्ता समुच्चयः
भिज्ञायां बाधकम् , तत्र मानाभावात, शब्दजनक शब्दस्य कार्यशब्दन शब्दजन्यशब्दस्य कारणशब्दनाशन नाशकल्पने गौर- सटीकः। वात् , उच्चरितशब्दस्य श्रोत्रदेशागमनकल्पनस्यैवौचित्यात् । अन्यथा कत्वादिरिशिष्टलौकिकपत्यक्षानुपपत्तेश्च ।
स्तबकः। यैश्चैतदुपपादनाय संप्रदायं परित्यज्य 'प्रतियोगितया शब्दनाशे विजातीयपवनसंयोगनाशत्वेन, स्वप्रतियोगिजन्य- Po॥१०॥ तासंबन्धेन नाशत्वेनैव वा हेतुत्वमुपगम्य विजातीयपवनसंयोगनाशादेव जनकशब्दनाशादेव वा शब्दानां नाशः, इति पचनसंयोगस्योत्सर्गतः क्षणचतुष्टयस्थायितया शब्दोत्पत्तिचतुर्थक्षणे निमित्तपवनसंयोगनाशात् पश्चमक्षणे शब्दनाशः, इति शब्दस्य चतुःक्षणस्थायितया न तृतीयक्षणवर्तिध्वंसप्रतियोगित्वरूपं क्षणिकत्वम् ; नापि निमित्तपवनसंयोगनाशक्षणोत्पन्नशब्दस्य क्षणिकतापत्तिः, निमित्तपवनसंयोगस्योत्पत्तिसंबन्धेन कार्यसहभावेन वा शब्दहेतुत्वात् । अवच्छेदकतया तारे शुकीयककागदी वा तादृशभावस्य हेतुत्वाद् वा; अत एव नैकावच्छेदेन सदृशनानाशब्दोत्पत्तिरपि' इति नव्यदृशा निरीक्ष्यते; तेषां बहुक्षणस्थायितामुपेक्ष्य प्रत्यभिज्ञाकदर्थनं व्यसनमात्रम् । वस्तुतो 'दुरादागतोऽयं शब्दः, समीपादागतोऽयं शब्दः' इति 'दादागतोऽयं बकुलपरिमलः, समीपादागतोऽयं बकुलपरिमल' इति घ्राणेन गन्धक्रियाविशेषवत् श्रोत्रेण शब्दक्रियाविशेषः साक्षादेव गृह्यते । इत्थमेव श्रोत्रापाप्यकारित्वाभिमानिशाक्यसिंहविनेयमतनिरासात् , क्रियाविशेषग्रहादेव दूरादिव्यवहारोपपत्तेः, दरस्थवादे श्रोत्रेण ग्रहीतुमशक्यत्वात् , दूरस्थस्यैव शब्दस्य ग्रहे दूरस्थेन महता भेयादिशब्देनाल्पस्य मशकादिशब्दस्यानभिभवप्रसाच्च । नच पवनगतव गतिः शब्द आरोप्यते, स्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तेरिति वाच्यम्, इन्द्रनीलप्रभागतेरिन्द्रनी- ३८०॥ लगत्यनुविधानवदुपपत्तेः।
Jain Education in 19a
For Private Personal Use Only