________________
'श्रोत्रेन्द्रियं द्रव्याग्राहकम्' इत्याद्यपि निरस्तम् , अप्रयोजकत्वात् । तस्याद्रव्यत्वसाधकमनुमानं च बलवता द्रव्यत्वसाधकानुमानेन बाधितमेव; तथाहि-शब्दो द्रव्यम् , क्रियावत्वात् , शरवत् । निष्क्रियत्वे च तस्य स्वासंबद्धश्रोत्रेण ग्रहणे तस्याप्राप्यकारित्वप्रसङ्गः । संबन्धकल्पनायां च श्रोत्रं वा शब्ददेशं गत्वा शब्देन संबध्येत, शब्दो वा श्रोत्रदेशमागत्य तेनाभिसंबव्येत? । नाद्यः, नभोरूपस्य श्रोत्रस्य निष्क्रियत्वेन गत्यभावात् , अपान्तरालवर्तिनामध्यन्यान्यशब्दानां ग्रहणप्रसङ्गात् , अनुवात-प्रतिवात-निर्यखातेषु प्रतिपक्ष्य-प्रतिपत्ती-पत्यतिपत्तिभेदाभावप्रसङ्गाच, श्रोत्रस्य गच्छतस्तस्कृतोपकाराद्य योगात् । नापि द्वितीयः, शब्दस्य श्रोत्रदेशागमने स्वयमेव सक्रियत्वाभिधानात् ।
नन्विदं स्वविकल्पजल्पमात्रम् , अस्मन्मते तु वीणायाकाशसंयोगेन स्वावच्छेदकावच्छेदन जनितेनावशब्देन दशदिक्षु निमित्तपवनतारतम्ये कदम्बगोल कन्यायेन तार-मन्दादिरूपा दश शब्दा आरभ्यन्ते, निमित्तपवनतारतम्ये तु दशदिक्षु वाचातरङ्गन्यायेनैक एव शब्द आरभ्यते, एवं तैरपि वा शब्दान्तरारम्भकमेग श्रोत्रमाप्तेः सुघटत्वाद् नानुपपत्तिरिति चेत् । नन्वेवं 'बाणादयोऽपि पूर्वपूर्वसमानजातीयक्षणप्रभवा अन्या एव लक्ष्येणाभिसंबध्यन्ते' इति किं नाभ्युपगम्यते । प्रत्यभिज्ञानाद् | बाणादौ स्थायित्वसिद्धेयं कल्पनेति चेत् । शब्देऽपि तर्हि मा भूदियम् , तत्राप्येकत्वग्राहिणः प्रत्यभिज्ञानस्य 'देवदतोचारित एवायं शब्दः श्रूयते' इत्येवमाकारेणोपजायमानस्याबाधितत्वात् । दूरत्व-नैकव्याभ्यां तार-मन्दादिभेदेन भेदे ध्रुवे साजात्यमेव प्रत्यभिज्ञाविषय इति चेत् । न, परिणामभेदेऽपि रक्ततादशायां घटस्येव परिणामिनस्तस्य सर्वथाऽभेदात् । अत एवानुश्रेण्यां विश्रेण्यां वा मिश्राणामेव पराघातवासितानामेव च शब्दद्रव्याणां श्रवणाभ्युपगमेऽपि न क्षतिः। न च क्षणिकत्वं शब्दस्य प्रत्य
SOSISTER
FIN
For Private Personal Use Only
Jan Education
www.jainelibrary.org