SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ताममुच्चयः। ॥३७९॥ PSPARRRRORIES द्भूतस्पर्शवत्समवायत्वेन प्रत्यासत्तित्वावश्यकत्वात् , द्रव्यान्यसत्त्वाचत्वस्य प्रतिवध्यतावच्छेदकत्वे घटा-ऽऽकाशसंयोगादौ जाति- सटीकः। स्पार्शनवारणाय जातिस्पार्शनं प्रति जातित्वादिना हेतुत्वकल्पने गौरवात् , व्यासज्यवृत्तिगुणनिष्ठविषयतया त्वाचत्वावच्छिन्नं स्तवकः। प्रत्येवोक्तमत्यासत्या त्वाचाभावस्य यावदाश्रयत्वाचस्य वा हेतुत्वाच्च । न च द्रव्यान्यद्रव्यसमवेतस्पार्शनत्वावच्छिन्नं प्रति त्वक्संयुक्तत्वाचवत्समवायत्वेनैव प्रत्यासत्तित्वम् , महदुद्भूतरूपयोरुभयोः प्रवेशे गौरवात् , तथा च वाय्वादेरस्पार्शनत्वे कथं तवृत्तिस्पर्शादिस्पार्शनम् ? इति वाच्यम् , त्वाचत्वस्य विशेषणत्वे गुण-गुणिनोर्युगपदग्रहणप्रसङ्गात् । उपलक्षणत्वे च पाकजस्पर्शोत्पत्तिकालेऽपि स्पर्शादिग्रहणप्रसङ्गान , एकस्यामेव व्यक्ती कालभेदेनानन्तत्वाचसंभवन ताववाचनिवेशापेक्षया महत्त्वोभूतस्पर्शयोरुभयोरेव निवेशौचित्याचेति दिग् । एवं चोद्भूतरूपाभावाच्छब्दस्य मूर्तद्रव्यत्वे वायुपिशाचादिवद् बहिरिन्द्रियप्रत्यक्षत्वमेव न घटते, विभुत्वे तु नित्यत्वाज्जन्यत्वमेव न स्यादिति मीमांसकमतप्रवेशः । कर्णावच्छिन्नश्रोत्रसमवायस्य शब्दग्राहकमत्यासत्तित्वाच्च न तस्य द्रव्यत्वम्, कर्णावच्छिन्नश्रोत्रसंयोगस्य तथात्वे श्रोत्रेण द्रव्यान्तरग्रहणप्रसङ्गादिति । सेयं कदक्षरमयी बत ! गीः परेषां धर्मव्यथेव विदुषां हृदयं दुनोति । कुर्मस्तदत्र गिरमाप्तमताद् वितत्य पीयूषदृष्टिसदृशं प्रतिकारसारम् ॥१॥ तथाहि- यत् तावद् बहिरिन्द्रियव्यवस्थापकत्वात् शब्दस्य गुणत्वमुक्तम् । तदसा, रूपादीनामपि द्रव्यविविक्तानाम- ॥३७९|| सत्त्वेनाऽतथात्वाद् दृष्टान्तासिद्धेः, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिन्नन्द्रियत्वव्याप्यत्वेन तत्र गुणप्रवेशस्य गौरवकरत्वाच । एतेन । almolo otok Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy