________________
odeo
भावकूटस्पर्शत्वयाासज्यवृत्त्यवच्छेदकतोपगमेनानुभूतत्वाभावकूटवस्पर्शत्वेनैव तथात्वमिति विभाव्यते, तदा मूर्तप्रत्यक्षत्वावछिन्नं प्रत्येव महत्वाद्भूतरूपस्पर्शवत्वेन हेतुत्वमस्तु, इति वायुप्रभादेरुच्छिन्नैव प्रत्यक्षत्वकथा, स्पर्श-रूपादिप्रत्यक्षेणैव तदनुमितिस्मृत्यादिसंभवात् । द्रव्यस्पार्शनजनकतावच्छेदकैकत्वनिष्ठजातेः सांकर्यवारणाय द्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातिव्याप्यत्वस्वीकारात् कुतो वाय्वादेः स्पार्शनम् ?, प्रकृष्टमहत्त्वोद्भुतस्पर्शयोव्यस्पार्शनं प्रति गौरवेणाहेतुत्वात् , एकस्य विजातीयकस्वस्यैव तत्वौचित्यात् । यदि च त्रसरेणोरचाक्षुषत्वाभ्युपगमेन द्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातेरेव द्रव्यस्पार्शनजनकतावच्छेदकैकत्वनिष्ठजातिव्याप्यत्वं किं न स्यात् ? इति विभाव्यते, तदाप्येकस्या एवैकत्वनिष्टजातेद्रव्यचाक्षुष-स्पार्शनोभयजनकतावच्छेदकत्वाद् न वाय्वादेः स्पार्शनत्वमिति तु स्वतन्त्राः ।
यत्तु 'घटाकाशसंयोगद्वित्वादेः स्पार्शनवारणाय द्रव्यान्यसत्त्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसंबन्धेन लौकिकविषयत्वावच्छिन्नत्वाचाभावस्य प्रतिबन्धकत्वं कल्प्यते, व्यासज्यवृत्तिगुणत्वाचत्वावच्छिन्नं प्रति तथात्वे गुणादित्वाचं प्रति प्रकृष्टमहत्त्ववदुद्भूतस्पर्शवत्समवायस्य पृथक्कारणत्वकल्पनापत्तेः, द्रव्यान्यसत्प्रत्यक्षत्वावच्छिन्नं प्रति चाक्षुषाभावस्य तथात्वे च घट-प्रभासंयोगादिस्पार्शनापत्तेदुर्निवारत्वात् , इति वायूपादेरस्पार्शनत्वेन तद्वृत्तिस्पार्शनानुपपत्तिः । न च स्पर्शतरद्रव्यान्यसत्त्वाचतं तत्पतिबध्यतावच्छेदकम् , स्पर्शतरत्वप्रवेशे गौरवात् । घटा-ऽऽकाशसंयोगादौ स्पार्शनसामान्यापत्तिवारणाय खस्पर्शस्पार्शनं प्रति स्पर्शत्वेन, परमाण्वादिस्पर्शस्पार्शनवारणाय प्रकृष्ट महत्त्वेन चातिरिक्त कारणत्वकल्पनाच' इति । तदसत् , त्रसरेण्वादिघटितसंनिकण द्रव्यत्वादित्वाचप्रसङ्गवारणाय द्रव्यान्यद्रव्यसमवेतस्पार्शनत्वावच्छिन्नं पति त्वक्संयुक्तप्रकृष्टमहत्त्वो
Jain Education initional
For Private Personal Use Only