________________
शास्त्रवार्तासमुच्चयः ।
॥ ३७८ ॥
वर्णो न नित्य इति तावदवादि युक्तं द्रव्यत्वमस्य पुनरर्थवशाद् यदुक्तम् । व्योमैकवर्तिनि गुणेन विराजते तद् गुञ्जेव राजवनितामणिहारमध्ये ॥ १ ॥
तथाहि - 'शब्दो गुणः, बहिरिन्द्रियव्यवस्थापकत्वात्, रूपादिवत्' इत्यनुमानात् परिशेषेणाम्बरगुणत्वसिद्धेः कथं तस्य द्रव्यत्वम् ? । तथात्वे हि श्रोत्रेण तस्य ग्रहणं न स्यात्'श्रोत्रेन्द्रियं द्रव्याग्राहकम्, रूप-स्पर्शाग्राहकवहिरिन्द्रियत्वात्, रसनवत्' इत्यनुमानेन श्रोत्रस्य द्रव्याग्राहकत्वसिद्धेः । अपिच, शब्दो न द्रव्यम्, एकद्रव्यत्वात्, रूपादिवत् । एकद्रव्यत्वं च तत्र 'एकद्रव्यः शब्दः, सामान्यविशेषवच्चे सति बाह्य केन्द्रियप्रत्यक्षत्वात्, रूपादिवत्' इत्यनुमानेन सिद्धम् । न च वाय व्यभिचारः, तस्य बाह्येन्द्रियाप्रत्यक्षत्वाद् मूर्त प्रत्यक्षत्वस्यैव संग्राहकत्व लाघवेनोद्भूतरूपकार्यतावच्छेदकत्वात्, द्रव्यचाक्षुषस्वस्य तथात्वे गगनादिस्पार्शनवारणाय द्रव्यस्पार्शनं प्रत्युद्भूतस्पर्शत्वेन हेतुत्वे स्पर्शत्वप्रवेशे गौरवात्, अनुद्भूतत्वाभाव-कूटस्पर्शत्वयोविंशेष्यविशेषणभावे विनिगमनाविरहात् । मम तु स्पर्श निष्ठानुद्भूतावच्छिन्नप्रतियोगिताकानुद्भूता भावकूटत्वेनैव हेतुत्वात्, गगनाद रूपाभावादेव त्वाचापत्तेरभावात्, सामान्यसामग्रीमादायैव विशेषसामन्याः कार्यजनकत्वनियमात् । अपि च, एवं त्वगिन्द्रियवृत्त्यनुद्भूताभावस्याप्यनित्रेशाल्लाघवम् । एतेन 'प्रामाणिकस्य घटपटादिनिष्ठोपादानप्रत्यक्षादिजन्यत्वस्यावच्छेदकं कार्यत्वमस्तु संग्राहकत्वात् न तु घटे घटत्वम्, पटादौ पटत्वादिकम्, गौरवात्; प्रकृते तु स्पार्शनस्य रूपजन्यत्वे मानाभावाद् निश्चिताव्यभिचारकत्वाच्च द्रव्यचाक्षुषत्वमेव तथा; अस्तु वा मृर्तप्रत्यक्षत्वावच्छिन्ने स्पर्शहेतुता' इत्यपास्तम्, वायोपतापत्ते । यदि चापेक्षाबुद्धिभेदेन कूटत्वस्य नानात्वाद् न तादृशानुद्भूता भावकूटत्वेन हेतुता, अपि त्वनुद्भूतत्वा
Jain Education Intonal
For Private & Personal Use Only
|सटीकः । स्तवकः ।
।। १० ।।
॥ ३७८ ॥
www.jainelibrary.org