________________
क्तस्य मरीचिभिर्भूमघोदकसकेन गन्धाभिव्यक्तिभेदात् , तथा च व्यञ्जकैर्वायुभिभिन्नेषु कर्णमूलावयवेषु वर्तमानैः प्रतिनियत| वर्णग्राहकतयैव श्रोत्रे संस्काराधायकत्वाद् नैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान् युगपद् गृह्णाति; तदुक्तम्--
"व्य अकानां हि वायूनां भिन्नावयवदेशता । जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते ॥१॥ अन्यार्थप्रेरितो वायुर्य थाऽन्यं न करोति च । तथान्यवर्णसंस्कारशक्तो नान्यं करिष्यति ॥२॥ अन्यैस्ताल्वादिसंयोगैर्नान्यो वर्णो यथैव हि । तथा ध्वन्यन्तरोचारो न ध्वन्यन्तरकारिभिः ।। ३॥
तस्मादुत्पत्यभिव्यक्त्योः कार्यार्थापत्तितः समः । सामर्थ्य भेदः सर्वत्र स्यात् प्रयत्न-विवक्षयोः॥४॥"
इति वाच्यम्, इंन्द्रियसंस्कारिणां व्यञ्जकानां समानदेश समानेन्द्रियग्राोवर्थेषु प्रतिनियत विषयग्राहकत्वेनेन्द्रियसंस्कारकत्वस्य क्वचिदप्यदर्शनात् । मरीचि-मेघोदकयोस्तु विषयसंस्कारकत्वमेव, नेन्द्रियसंस्कारकत्वम् , तैलाभ्यक्तभुवोर्गधातिशयस्यैव ताभ्यामभिव्यक्तः । किञ्च, इन्द्रियसंस्कारकत्वमिन्द्रियगतोपकारजननं विना दुर्वचम् , उपकारश्च भेदाभेदविकल्पोपहतः, अन्यथा च व्यञ्जकभेदोपलोप इति न किञ्चिदेतत् । एतेन 'व्यवहितनिध्यादिमात्रव्यञ्जकमन्त्रादिवत् संनिहितकादिमात्रव्यञ्जकवायुभेदोक्तावपि न क्षतिरिति श्रोत्रसंस्कारपक्षोऽपि न साधीयान् । उभयसंस्कारपक्षस्तु प्रत्येकपक्षोक्तदोषोपहत एवेवि दिग् । एवं च वणीनामेवानित्यत्वात् कथं तत्समुदायरूपस्य वेदस्य नित्यत्वम् । इति परिभावनीयम् ।
अत्र नैयापिका:
Sex
RBI www.jainelibrary.org
Jain Education
For Private Personal Use Only
anal