Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवातासमुच्चयः। ॥३९५॥
च तच्छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, 'येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो
| सटीकः। भवेत, ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टा
स्तवकः। हारनिमित्तत्वं च प्रत्यक्षा-ऽनुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतम् , इति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भाचे कचिदपि
॥१०॥ तस्थितिस्तन्निमित्ता न भवेत् । अथौदारिकशरीरस्थितित्वं न कवलाहारजन्यतावच्छेदकम् , एकेन्द्रियशरीरस्थितौ व्यभिचारात ; नाप्यस्मदादिशरीरस्थितित्वम् , अस्मदादित्वस्याननुगतत्वात् , किन्तु विजातीयशरीरस्थितित्वम् ; तच्च वैजात्यं केवलिशरीरे नास्ति, मोहक्षयेण रुधिरादिधातुरहितस्य मूत्र-पुरीषादिमलाधायिकवलाहारानपेक्षस्य परमौदारिकशरीरस्यैव । भावादिति चेत् । न, केवलिशरीरस्य कवलाहारानपेक्षत्वसिद्धौ परमौदारिकत्वसिद्धिः, तत्सिद्धौ च कवलाहारानपेक्षत्वसिद्धिरित्यन्योन्याश्रयात् । न च मोहक्षयेण परमौदारिकत्वमप्युत्पादायतुं शक्यम् , भवोपष्टम्भकशरीरोपमर्दैन शरीरान्तरोपग्रहे भवान्तरप्रसङ्गात् । अवस्थितशरीरस्यातिशयश्च न रुधिरादिधातूपष्टब्धमनुष्यशरीरत्वजात्युच्छेदेन संभवति । न ह्यतिशयितोऽपि पद्मरागो मुक्तामणीभवति । कथं चैवं पुद्गलविपाकिवज्रर्षभनाराचसंहननप्रकृतिविपाकोदयस्तत्र स्यात् ?, अ. स्थि-पुद्गलेष्वेव तस्या विपाकदर्शनात् "संहयणमट्टिणिचओ" इति वचनात् । न चास्थि-पुद्गलेषु दृढतररचनाविशेष एव तप्रकृतिजन्य इति नियमो न तु तेष्वेवेति वाच्यम् , दृढावयवशरीराणां देवानामपि तत्पसङ्गात् । किञ्च, मोहक्षयस्य तत्कार्यराग-द्वेषविलयद्वारा ज्ञानोत्पादकत्वमेव, न तु शरीरातिशायकत्वम् , नामकर्मातिशयादेव जात्यनुच्छेदेन प्रशस्तसंहननादि- ||३९५॥
१ क. 'यतः'। २ संहननमस्थिनिचयः ।
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902