Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यदपि 'श्रूयते च प्रकृताहारमन्तरेणापि' इत्यायुक्तम् , तदप्यपर्यालोचिताभिधानम् , प्रथमतीर्थकरप्रभृतीनां निराहारकालमानोक्तिमामाण्ये तदियत्तानियमस्यापि तत एव सिद्धेः, तदधिकनिराहारतच्छरीरस्थितेः सूत्रे निषेधात् , निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादनात् “संवच्छरमुसभजिणो" इत्यादिवचनप्रामाण्यात् । इत्थं च 'निनिमित्तं सूत्रभेदकरणम्' इति परास्तम् , तच्छरीरस्य चिरतरकालस्थितेरेव सूत्रभेदकरणनिमित्तत्वात् , प्रकृताहारमन्तरेण तस्थितेरसंभवस्य प्रतिपादनात् , सामान्यमूत्रस्याप्यन्यथानुषपच्या यथासंभवन्यायेन विशेषबोधकत्वात् । भूयांसि च प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागम उपलभ्यन्ते, प्रतिनियतकालप्रकृताहारनिषेधकानि च यथा वर्धमानस्य भगवतो व्याख्याप्रज्ञप्त्यादौ विकटभोजित्वाद्यभिधायकानि, यथा च प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्रकेवलिवृतस्य निर्वाणगतिप्रतिपादनादिसूत्राणीति न मूत्रभेदक्लूप्तिदोषोऽपि ।
यदपि 'न चातिशयदर्शनात्' इत्यायुक्तम् । तदपि न, निराहारौदारिकशरीरचिरतरस्थितेरदृष्टायाः कल्पने सयोगात्यन्तावस्थानस्याप्यतिश येन प्रसङ्गापादने दोपाभावात् , बाधकानुमानादेचोभयत्र सत्त्वात् । एतेन यदुच्यते- 'सुनिश्चितासंभवद्भाधकप्रमाणवादकवलभोजित्वं भगवतः सिध्यति' इति; तदपि प्रत्युक्तम्, एतस्य प्रामाण्येऽतन्त्रत्वाच्च, बाधकप्रमाणाभावस्यान्यतः प्रमाणाद् निश्चये तत्राप्येतन्निश्चयार्थ प्रमाणान्तरापेक्षायामनवस्थाप्रसङ्गात् ; बाधानुपलम्भात् तन्निश्वयस्य चाशक्यत्वात् , उत्पत्स्यमानबाधकेऽपि प्राग् वाधानुपलब्धिसंभवात् । न चानिश्चित लक्षणं प्रमाणं प्रप्रेयव्यवस्थानि
, संवत्सरमृषभजिनः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902