Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 794
________________ शास्त्रवार्तासमुच्चयः । ॥ ३७८ ॥ वर्णो न नित्य इति तावदवादि युक्तं द्रव्यत्वमस्य पुनरर्थवशाद् यदुक्तम् । व्योमैकवर्तिनि गुणेन विराजते तद् गुञ्जेव राजवनितामणिहारमध्ये ॥ १ ॥ तथाहि - 'शब्दो गुणः, बहिरिन्द्रियव्यवस्थापकत्वात्, रूपादिवत्' इत्यनुमानात् परिशेषेणाम्बरगुणत्वसिद्धेः कथं तस्य द्रव्यत्वम् ? । तथात्वे हि श्रोत्रेण तस्य ग्रहणं न स्यात्'श्रोत्रेन्द्रियं द्रव्याग्राहकम्, रूप-स्पर्शाग्राहकवहिरिन्द्रियत्वात्, रसनवत्' इत्यनुमानेन श्रोत्रस्य द्रव्याग्राहकत्वसिद्धेः । अपिच, शब्दो न द्रव्यम्, एकद्रव्यत्वात्, रूपादिवत् । एकद्रव्यत्वं च तत्र 'एकद्रव्यः शब्दः, सामान्यविशेषवच्चे सति बाह्य केन्द्रियप्रत्यक्षत्वात्, रूपादिवत्' इत्यनुमानेन सिद्धम् । न च वाय व्यभिचारः, तस्य बाह्येन्द्रियाप्रत्यक्षत्वाद् मूर्त प्रत्यक्षत्वस्यैव संग्राहकत्व लाघवेनोद्भूतरूपकार्यतावच्छेदकत्वात्, द्रव्यचाक्षुषस्वस्य तथात्वे गगनादिस्पार्शनवारणाय द्रव्यस्पार्शनं प्रत्युद्भूतस्पर्शत्वेन हेतुत्वे स्पर्शत्वप्रवेशे गौरवात्, अनुद्भूतत्वाभाव-कूटस्पर्शत्वयोविंशेष्यविशेषणभावे विनिगमनाविरहात् । मम तु स्पर्श निष्ठानुद्भूतावच्छिन्नप्रतियोगिताकानुद्भूता भावकूटत्वेनैव हेतुत्वात्, गगनाद रूपाभावादेव त्वाचापत्तेरभावात्, सामान्यसामग्रीमादायैव विशेषसामन्याः कार्यजनकत्वनियमात् । अपि च, एवं त्वगिन्द्रियवृत्त्यनुद्भूताभावस्याप्यनित्रेशाल्लाघवम् । एतेन 'प्रामाणिकस्य घटपटादिनिष्ठोपादानप्रत्यक्षादिजन्यत्वस्यावच्छेदकं कार्यत्वमस्तु संग्राहकत्वात् न तु घटे घटत्वम्, पटादौ पटत्वादिकम्, गौरवात्; प्रकृते तु स्पार्शनस्य रूपजन्यत्वे मानाभावाद् निश्चिताव्यभिचारकत्वाच्च द्रव्यचाक्षुषत्वमेव तथा; अस्तु वा मृर्तप्रत्यक्षत्वावच्छिन्ने स्पर्शहेतुता' इत्यपास्तम्, वायोपतापत्ते । यदि चापेक्षाबुद्धिभेदेन कूटत्वस्य नानात्वाद् न तादृशानुद्भूता भावकूटत्वेन हेतुता, अपि त्वनुद्भूतत्वा Jain Education Intonal For Private & Personal Use Only |सटीकः । स्तवकः । ।। १० ।। ॥ ३७८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902