Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 819
________________ M BREEDERABASIRATRAINER हि भगवति क्लेशो नाम, अनन्तसुखविरोधात् : 'पयोभृते घटे निम्बरसलव इव बहुपुण्यप्राग्भारभृते भगवत्यसातवेदनीयादिप्रकृतयो नासुखदाः' इत्युपदेशात् , दग्धरज्जुस्थानीयत्वाच्च तासाम् । न चातीन्द्रियस्य भगवतो देहगतं क्षुदादिदुःखं तदुपशमसुखं वा संभवति, आहारसंज्ञा-रुचिरूपयोर्मानस-रासनज्ञानयोस्तत्र हेतुत्वात् , विषयसंपर्कमात्रस्य तज्ज्ञानमात्रस्य चाव्यभिचारित्वात् , तदिदमुक्तम् "सोक्खं वा पुण दुक्खं केवलनाणिस्स पत्थि देहगदं । जम्हा अदिदियत्तं जादं तम्हा हुन तं यं ॥१॥" औदारिकव्यपदेशस्तु भगवच्छरीरस्योदारत्वात् , न तु भुक्तः। यत्वेकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेशात् केवलिनां कवलाहारिवं केवित् प्रतिपन्नाः, तत्सूत्रार्थापरिज्ञानविजृम्भितम् । तत्र ोकेन्द्रियादिभिः सह भगवतो निर्देशात् , निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणस्याहारत्वेन विवक्षितत्वात् , अन्यथा समुद्धातावस्थायां क्षणत्रयमात्रमपहाय तेनाहारेण भगवतो निरन्तराहारत्वप्रसङ्गात् । तत्र यथासंभवमाहारव्यवस्थितेः सह निर्देशेऽपि कवलाहार एवं केवलिनो व्यवस्थापयितुं युक्तः, अन्यथा तच्छरीरस्थितरभावप्रसङ्गादिति युक्तम् , अस्मदादौ प्रकृताहारमन्तरेणौदारिकशरीरस्थितेः प्रभूतकालमभावदर्शनात केवलिन्यपि तथाकल्पने तत्र सर्वज्ञताया अप्यनवसायप्रसङ्गात , दृष्टव्यतिक्रमकल्पनाऽयोगात् । श्रूयते च प्रकृताहारमन्तरेणाप्यौदारिकशरीरस्थितिश्चिरतरकाला प्रथमतीर्थकृत्मभृतीनाम् । न च तदियत्तानियमप्रतिपादक | प्रमाणमस्ति, इति निनिमित्तं मूत्रभेदकरणम् । यथान्यासं सूत्रार्थाश्रयण एव हि निरन्तराहारवचनमप्यनुल्लङ्कितं भवेत् । न १ सौख्यं वा पुनदुःखं केवलज्ञानस्य नास्ति देहगतम् । यस्मादतीन्द्रियत्वं जातं तस्मात् खलु न तज्ज्ञेयम् ॥1॥ edalaa For Private Personal Use Only www.jainelorary.org Jan Eduen interior

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902