Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 761
________________ नन्तर 'गोसदृशो गवयः' इति वाक्याल्लक्षणया गवयत्वविशिष्ट शक्तिग्रह इति वाच्यम् । गोसादृश्यसामानाधिकरण्येन गवयपदवाच्यत्वबोधजननात् , जनितान्वयबोधतयाऽनाकासत्वेन तस्य लक्षणीयं बोधयितुमसमर्थत्वात् । ननु तथापि 'गवयपदं सप्रवृत्तिनिमित्तकम् , पदत्वात्' इति सामान्यतो दृष्टमितरवाधात् , लाघवाच गवयत्वप्रवृत्तिनिमित्तकत्ववोधकमस्तु; अस्तु वा | गवयत्वप्रवृत्तिनिमित्त तत् , इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तत्वादिति व्यतिरेक्येव तथेति चेत् । न, अनुमिते ापकतानवच्छेदकाप्रकारकत्वात् , द्वितीये साध्यामसिद्धेश्च । । अत्र 'सादृश्यादिविशिष्टपिण्डदर्शनं करणम् , उद्बोधकीभूततजन्यातिदेशवाक्यार्थस्मृतिापारः' इति मिश्राः । 'एतनये वाक्यास्मृत्यव्यवहितोत्तरं सादृश्यविशिष्टपिण्डदर्शन उपमितिर्न स्यात्, इत्यतिदेशवाक्यार्थधीः करणम् , तदर्थस्मृति ापारः, सदृशपिण्डदर्शनं च सहकारि' इति नव्याः । 'एतन्नयेऽतिदेशवाक्यार्थानुभवोत्तरमेव सशपिण्डदर्शन उपमितिन स्यादिति वाक्यज्ञानं करणम् , वाक्यार्थानुभवादिकं व्यापारः' इत्यन्ये । 'अयमपि नयश्चित्रलेखादिना मानसबोधादुपमित्यभावे शोभते । न च निश्चयत्वाप्रवेशलाघवादतिदेशवाक्यार्थशाब्दत्वेनैव हेतुत्वान् प्रकृत आभिप्रायिकशब्दकल्पनाद् नानुपपत्तिरिति वाच्यम् । तदर्थज्ञानसत्वेऽपि व्यापारभूततन्निश्चयादेव कार्यसंभवात् । तस्मात् सादृश्यज्ञानमात्र करणम् , व्यापारोऽतिदेशवाक्यार्थज्ञानम् , सादृश्यविशिष्टपिण्डदर्शनं च, उभयत्रैव विशेषणीभूतसादृश्यज्ञानहेतुत्वात्' इति यौक्तिकाः। अथ 'धिक करभमतिदीर्घग्रीवं कठोरकण्टकाशिनमपसदं पशूनाम्' इत्यादिवाक्यार्थज्ञानादनन्तरमतिदीर्घग्रीवत्वादिरू पवत्पिण्डदर्शने करभपदवाच्यतोपमितेरत्र पश्चन्तरवैधय॑ज्ञानमप्युपमितिहेतुः, इति साधर्म्य-वैधय॑ज्ञानयोरुपमितिहेतुत्वे व्यभिचार इति चेत । Jain Education Intem For Private Personal use only M ainelibrary.org

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902