________________
नन्तर 'गोसदृशो गवयः' इति वाक्याल्लक्षणया गवयत्वविशिष्ट शक्तिग्रह इति वाच्यम् । गोसादृश्यसामानाधिकरण्येन गवयपदवाच्यत्वबोधजननात् , जनितान्वयबोधतयाऽनाकासत्वेन तस्य लक्षणीयं बोधयितुमसमर्थत्वात् । ननु तथापि 'गवयपदं सप्रवृत्तिनिमित्तकम् , पदत्वात्' इति सामान्यतो दृष्टमितरवाधात् , लाघवाच गवयत्वप्रवृत्तिनिमित्तकत्ववोधकमस्तु; अस्तु वा | गवयत्वप्रवृत्तिनिमित्त तत् , इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तत्वादिति व्यतिरेक्येव तथेति चेत् । न, अनुमिते
ापकतानवच्छेदकाप्रकारकत्वात् , द्वितीये साध्यामसिद्धेश्च । । अत्र 'सादृश्यादिविशिष्टपिण्डदर्शनं करणम् , उद्बोधकीभूततजन्यातिदेशवाक्यार्थस्मृतिापारः' इति मिश्राः । 'एतनये वाक्यास्मृत्यव्यवहितोत्तरं सादृश्यविशिष्टपिण्डदर्शन उपमितिर्न स्यात्, इत्यतिदेशवाक्यार्थधीः करणम् , तदर्थस्मृति
ापारः, सदृशपिण्डदर्शनं च सहकारि' इति नव्याः । 'एतन्नयेऽतिदेशवाक्यार्थानुभवोत्तरमेव सशपिण्डदर्शन उपमितिन स्यादिति वाक्यज्ञानं करणम् , वाक्यार्थानुभवादिकं व्यापारः' इत्यन्ये । 'अयमपि नयश्चित्रलेखादिना मानसबोधादुपमित्यभावे शोभते । न च निश्चयत्वाप्रवेशलाघवादतिदेशवाक्यार्थशाब्दत्वेनैव हेतुत्वान् प्रकृत आभिप्रायिकशब्दकल्पनाद् नानुपपत्तिरिति वाच्यम् । तदर्थज्ञानसत्वेऽपि व्यापारभूततन्निश्चयादेव कार्यसंभवात् । तस्मात् सादृश्यज्ञानमात्र करणम् , व्यापारोऽतिदेशवाक्यार्थज्ञानम् , सादृश्यविशिष्टपिण्डदर्शनं च, उभयत्रैव विशेषणीभूतसादृश्यज्ञानहेतुत्वात्' इति यौक्तिकाः। अथ 'धिक करभमतिदीर्घग्रीवं कठोरकण्टकाशिनमपसदं पशूनाम्' इत्यादिवाक्यार्थज्ञानादनन्तरमतिदीर्घग्रीवत्वादिरू पवत्पिण्डदर्शने करभपदवाच्यतोपमितेरत्र पश्चन्तरवैधय॑ज्ञानमप्युपमितिहेतुः, इति साधर्म्य-वैधय॑ज्ञानयोरुपमितिहेतुत्वे व्यभिचार इति चेत ।
Jain Education Intem
For Private Personal use only
M
ainelibrary.org