________________
Slidisia
सटीकः। स्तरकः। ॥१०॥
शास्त्रवार्ता- तथापि गवये गोप्रतियोगिकसादृश्यज्ञानकरणकं गवि गवयप्रतियोगिकसादृश्यज्ञानमुपमितिरस्तु । न ह्येतत् प्रत्यक्षम् , समुच्चयः। विशेष्यस्य गोरसंनिकर्षात । नापि स्मृतिः, अननुभूतविषयकत्वात् , गोरनुभवेऽपि विशिष्टस्याननुभवात् । तदुक्तम्॥३६॥
"तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १॥"
इत्युपमानमतिरिच्यतामिति चेत् । न, एवं सति 'गवयो गोविधर्मा' इति ज्ञानस्यापि 'गोर्गवयविधर्मा' इति ज्ञानजनकस्य मानान्तरत्वप्रसङ्गात् । यदि च गवये गोप्रतियोगिकवैधय॑ज्ञाने गवि गवयनिष्ठवैधर्म्यप्रतियोगित्वेन ज्ञानेन गवयप्रतियोगिकवैधर्म्यमनुमीयते, तदा तुल्यम् , प्रकृतेऽपि गवयनिष्ठसादृश्यप्रतियोगित्वेन गवयप्रतियोगिकसादृश्यानुमानात्' इत्याहुः।
नैयायिकास्तु- 'कीहा गवयः? इति प्रश्न 'गोसदृशो गवयः' इत्युत्तरवाक्ये श्रुते, वने पर्यटतस्तत्सदृशपिण्डदर्शनानन्तरं तत्र गवयपदशक्तिपरिच्छेद उपमानफलम् , इन्द्रिय-लिङ्ग-शब्दासाध्यत्वात् । न च 'गोसदृशो गवयः' इति वाक्यादेव गोसादृश्यविशिष्टे शक्तिग्रहः, 'गोसदृशो गवयपदवाच्यः, असति वृश्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वात्' इत्यनुपानाद् वेति शनीयम् ; गौरवात् , तदज्ञानेऽपि व्यवहारादिना गवयत्वविशिष्टे शक्तिग्रहेण गवयपदप्रयोगाच, गोसादृश्यस्य गवयपदाप्रवृत्तिनिमित्तत्वात् , गवयत्वस्य तादृशस्य प्रागपतीतेः, शब्दादनुमानाद् वा तेन रूपेण शक्त्यग्रहान् । न च गवयत्वप्रत्यक्षा
१ मुद्रितश्लोकवार्तिके पृ० ४४४ ।
abo
॥३६शा
Jain Education in
For Private & Personal Use Only
Ravww.iainelibrary.org