________________
पूर्वनिश्चये विशेषदर्शनस्येव प्रामाण्यनिश्चयस्य हेतुत्वं स्यादपीति । वस्तुतः प्रवृत्तावप्रामाण्यज्ञानानास्कन्दितस्यैवेष्टज्ञानस्य हेतुत्वाद् हेतुतावच्छेदकविघटकापामाण्यज्ञानापनयनायैव प्रामाण्यनिश्चयादरः। तदिदमुक्तम्- 'तद्विषयसंशयापगम एव प्रयोजनम्' इति । अधिकमस्मत्कृतप्रमारहस्यादनुसंधेयम् । तत् सिद्धमेतत्
प्रामाण्यं स्वत एव केवलदृशां ज्ञप्तौ, गुणापेक्षणादुत्पत्तौ परतः, स्वतश्च परतश्छायस्थ्यभाजां पुनः। __ अभ्यासे च विपर्यये च विदितं जप्ती, समुत्पद्यते त्वन्यस्मादिति शासनं विजयते जैनं जगज्जित्वरम् ॥१॥१५॥
एवं सर्वज्ञग्रहादुपमानस्याप्यत्र प्रवृत्तिरित्याह--- हृद्गताशेषसंशीतिनिर्णयात् तद्ग्रहे पुनः। उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा॥१६॥
__हृद्गताशेषसंशीतिनिर्णयात्- स्वहृदयगताखिलसंदेहापनयनाद् हेतोः, तद्ग्रहे- सर्वज्ञग्रहे सति, पुनः- तदनन्तरम् , FO अन्यग्रहे- तथाविधान्योपलब्धौ सत्याम् , तत्र- गृहीते सर्वज्ञे, 'अनेन सदृशोऽसौ' इत्युपमानम् । तदग्रहे चोपमाऽप्रवृत्ती न क्षतिरित्याह-न चान्यत्रापि च-गो-गवयादावपि च, अन्यथा-उभयदर्शनाभाव उपमासंभवः ।।
अत्र वैशेषिकादयः- 'नोपमानमतिरिच्यते, विषयाभावात् । न च सादृश्यं विषयः, तद्धि नातिरिक्तम् , तव्यञ्जBP कत्वाभिमतस्य तदन्यत्वे सति तद्धर्मवच्चादेरेव तत्त्वात् । तच्च स्वघटकभेदप्रतियोगिज्ञानसहकृतेन्द्रियग्राह्यम् । एतेन 'इन्द्रियसं
निकर्षमात्रात् तदग्रहेण लिङ्गाद्यप्रतिसंधानेऽपि च ग्रहणे तस्यानतिरिक्तत्वेऽपि ग्राहकान्तरमावश्यकम्' इत्यपास्तम् । ननु
in Education Intem
For Private & Personal Use Only
HAMAjainelibrary.org