________________
शाम्रवार्ता- समुच्चयः। ॥३६०॥
सटीकः। स्तबकः। ॥१०॥
अत एव श्रुतनिश्रितादिमतिज्ञानव्यवस्थापि संगता, तत्र श्रुतानुसारानपेक्षणादित्यन्यत्र विस्तरः । अथ झटिति प्रचुरा च तथाविधा प्रवृत्तिरन्यथानुपपद्यमाना स्वतःप्रामाण्यज्ञप्तिमाक्षिपतीति चेत् । न, अन्ययेवोपपत्तेरिष्टोपायताज्ञानादेझटिति सियादिनन झटिति प्रवृत्त्यादिसंभवात् , तत्र प्रामाण्यग्रहस्य कचिदप्यनुपयोगात् , उपयोगे वा 'खतः' इति पक्षपातायोगात् ।
स्यादेतदनभ्यासदशायां प्रामाण्यसंदेहादपि प्रवृत्तेः किं प्रामाण्यनिश्चयप्रयोजनम् ? इति । तत्र बदन्ति-तद्विषयसंशयापगम एव प्रयोजनम्, इति किं प्रयोजनान्तरनिरूपणप्रयासेन ? । तत् प्रयोननं किम् ? इति चेत् । अभ्यास एव । संदेहात् प्रवर्तमानस्य कथं प्रेक्षावत्त्वं स्यात् ? इति चेत् । न, कथञ्चित् प्रेक्षावरणक्षयोपशमादासादितप्रेक्षावयपदेशस्यापि संदेहादिदशायां तदभावादतथाव्यपदेशात् । उक्तं च
"प्रेक्षावत्ता पुन या कस्यचित् कुत्रचित् कचित् । अप्रेक्षाकारिताप्येवमन्यत्राशेषवेदिनः ॥ १॥” इति ।
अयं भावः- तृणारण्यादिस्थले बहाविव प्रामाण्यसंशय-निश्चयस्थले प्रवृत्तौ विशेषादर्शनात् विशिष्य प्रवृत्तौ तयोर्हेतुत्वं न कलप्यते चेत् , तथापि प्रेक्षावरणक्षयोपशमभावा-ऽभावाभ्यामर्थतस्तयोः प्रेक्षावद-ऽप्रेक्षावत्मवृत्तित्वविशेषोऽनिवारित एव । न च सकम्पत्व-निष्कम्पत्वयोः प्रवृत्तिगतविशेषधर्मयोरनुभवात् तदवच्छि नयोरेव हेतुत्वमिति निरवद्यम् । कम्पा-कम्पयोरपि फलानवश्यंभावसंभावनाजनितभय-तदभावनिमित्तत्वात् स्वाभाविकविशेषासिद्धेः । किञ्च, प्रामाण्यानिश्चयेऽपि कोट्यस्मरणादिना संशयाभावाद् निष्कम्पप्रवृत्युपपत्तेपभिचारादपि न तत्र प्रामाण्यनिश्चयस्य हेतुत्वम् , प्रेक्षापूर्वप्रवृत्तौ तु बाध
॥३६०॥
Jain Education
S
onal
For Private Personal use only
www.jainelibrary.org