________________
DMOTION
एतेन वस्तुतः 'तद्वद्विशेष्यकत्वे सति तत्पकारकत्वमात्रं न प्रामाण्यम् , रजत-शुक्त्योः शुक्तिरजत इत्यादिज्ञानसाधारण्यात् , किन्तु तावद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वम् , तद्ग्रहे चानुव्यवसायसामग्या असामयम् , व्यवसायो वा प्रतिबन्धकः, विशेषणतावच्छेदकीभूततद्वद्विशेष्यकत्वज्ञानस्यात्र कारणत्वकल्पनाद् वा न प्रथमानुव्यवसायेन तद्ग्रहः' इति निरस्तम् , तत्प्रकारतावच्छिन्नतद्विशेष्य ताकत्वस्य प्रामाण्यत्वेऽविनिगमात् , अनभ्यासे द्वितीयानुव्यवसायेनापि तदग्रहाच्च, कदाचित् प्राकोव्यस्मरणादिना विलम्बेऽपि तदुत्तरं संशयदर्शनात् । यत्तु 'एकसंबन्धेन तद्वति संबन्धान्तरण तत्प्रकारकज्ञानं व्यावृत्तं तेन संबन्धेन तत्पकारकत्वं प्रामाण्यं दुहम्' इति तदपि मनोरथमात्रम् , व्यवसायेन संबन्धेन रजतत्वादिकं प्रकारस्तेन तद्वतोऽनुव्यवसाये भानात् । यदपि 'इदं रजतम्' इति तादात्म्यारोपव्यावृत्तये मुख्यविशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वं दुहम्' इति तदपि न, आरोप्यांशे प्रमात्वेन मुख्यताया अनिवेशादिति दिग् ।
तस्मादनभ्यासदशायां वह्विज्ञानमात्रतः प्रवृत्तस्य समर्थप्रवृत्त्युपलम्भात् तयैव लिङ्गेन प्रामाण्यं परतो निश्चीयते, निश्चायकस्यानुमानस्य प्रकृतप्रामाण्याश्रयातिरिक्तत्वात् न चैवं तत्रापि प्रामाण्यग्राहकान्तरापेक्षायामनिष्टापातः, कस्यचित् संवादकस्य खत एवं प्रामाण्यनिश्चयेनोपरमात् । ततश्चाभ्यासदशायां तज्जातीयज्वलनोपलम्भे तदाहितक्षयोपशमाल्लिङ्गाद्यनपेक्षतया स्वत एव प्रामाण्यनिश्चय इति विवेकः। दृश्यते च प्राग लिङ्गाद्यपेक्षतया निश्चितस्यापीष्टसाधनतादेः स्वाश्रयनि सिज्ञानेऽभ्यासाहितक्षयोपशमपाटवात् तदनपेक्षतयापि साक्षादनुभवः। स्मृतित्वं च तत्रानुभवबाधितम् । प्राक् तदुपस्थितिरपि तत्रातन्त्रम् , क्षयोपशमेन ज्ञानप्रत्यासत्यन्यथासिद्धेः, तथाविधोपस्थित्यादिनियामकादेव कार्यनियमसिद्धेः "तद्धेतोः" इत्यादिन्यायात् ।
se
Jan Educa
For Private & Personal Use Only
www.jainelibrary.org