________________
सटीकः । स्तबकः। ॥१०॥
शाखवार्ता सामग्री खजनकक्षयोपशमसामग्यन्तर्गता तत्र भवत्येव सदा प्रामाण्यग्रहः, अत एव स्वांशे न कापि प्रमाणा-प्रमाणविभागः समुच्चयः। किन्तु विषयांश एवः तदुक्तम्॥३५९॥ ___ "भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिष्प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ १॥" इति ।
नैयायिकनये तु स्यादप्ययं दोषः, पुरोवर्तिविशेष्यत्वस्य रजतत्वादिप्रकारत्वस्य चानुव्यवसायग्राह्यत्वाभ्युपगमात् , पुरोवर्तिन इदंत्वेन रजतत्वादिनाप्युपनयवशाद् भानसंभवात् , विशेष्यत्वादेग्नुपस्थितस्याप्रकारत्वेऽपि विशेष्यतया रजतादि
मत्त्वे सति प्रकारितया रजतत्वादिमत्वस्य मामाण्यस्य सुग्रहत्वात् । न चेदत्ववैशिष्ट्यं पुरोवर्तिनि न भासत इति वाच्यम् । RO विशेष्यतायां पुरोवर्तिनः स्वरूपतो भानानुपपत्तेः, तादृशविशेषणज्ञानाभावात , समानाकारविषयकज्ञानस्यैवोपनायकत्वात् ,
यद्विशेष्यकयत्मकारकज्ञानत्वावच्छेदेन प्रामाण्यसंशयस्तद्धर्मविशिष्टे तत्यकारक एव संशय इति नियमात ; प्रकृते प्रामाण्यसंशयोत्तरं 'रजतमिदं नवा द्रव्यं रजतं नवा' इत्याद्यनियमापोहेन 'इदं रजतं नवा' इत्येव संशयार्थमिदंत्वन धर्मिभानावश्यकत्वाच । अथ विधेयताशालिनः स्वातन्त्र्येण वैशिष्ठ्यज्ञानेऽनुव्यवसायसामग्या असामर्थ्य कल्प्यते, व्यवसायस्यैव वा प्रतिबन्धकत्वम् , तद्वद्विशेष्यकोपस्थितेरुत्तेजकत्वाच (न?) तत्सचे प्रामाण्यग्रह इति चेत् । नैतत् कमनीयम् , गौरवात् , व्यवसायनाशोत्तरं तदग्रहप्रसङ्गाच्च, अभ्यासस्य प्रामाण्याश्रयज्ञाने प्रामाण्यग्रहणपरिणामहेतुत्वस्यैव कल्पयितुं युक्तत्वात् । न चेदेवम् , स्वप्रकाशवादोपदर्शितदिशा व्यवसायस्यैव क्षणिकत्वाद् नानुव्यवसायेन ग्रहणमिति कैव कथा प्रामाण्योपस्थितिव्यवाहितस्य तस्य ? इति | परिभावनीयम् ।
रहस
॥३५९॥
Jain Education
a
l
For Private Personel Use Only
www.jainelibrary.org