SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। ॥१०॥ शाखवार्ता सामग्री खजनकक्षयोपशमसामग्यन्तर्गता तत्र भवत्येव सदा प्रामाण्यग्रहः, अत एव स्वांशे न कापि प्रमाणा-प्रमाणविभागः समुच्चयः। किन्तु विषयांश एवः तदुक्तम्॥३५९॥ ___ "भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिष्प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ १॥" इति । नैयायिकनये तु स्यादप्ययं दोषः, पुरोवर्तिविशेष्यत्वस्य रजतत्वादिप्रकारत्वस्य चानुव्यवसायग्राह्यत्वाभ्युपगमात् , पुरोवर्तिन इदंत्वेन रजतत्वादिनाप्युपनयवशाद् भानसंभवात् , विशेष्यत्वादेग्नुपस्थितस्याप्रकारत्वेऽपि विशेष्यतया रजतादि मत्त्वे सति प्रकारितया रजतत्वादिमत्वस्य मामाण्यस्य सुग्रहत्वात् । न चेदत्ववैशिष्ट्यं पुरोवर्तिनि न भासत इति वाच्यम् । RO विशेष्यतायां पुरोवर्तिनः स्वरूपतो भानानुपपत्तेः, तादृशविशेषणज्ञानाभावात , समानाकारविषयकज्ञानस्यैवोपनायकत्वात् , यद्विशेष्यकयत्मकारकज्ञानत्वावच्छेदेन प्रामाण्यसंशयस्तद्धर्मविशिष्टे तत्यकारक एव संशय इति नियमात ; प्रकृते प्रामाण्यसंशयोत्तरं 'रजतमिदं नवा द्रव्यं रजतं नवा' इत्याद्यनियमापोहेन 'इदं रजतं नवा' इत्येव संशयार्थमिदंत्वन धर्मिभानावश्यकत्वाच । अथ विधेयताशालिनः स्वातन्त्र्येण वैशिष्ठ्यज्ञानेऽनुव्यवसायसामग्या असामर्थ्य कल्प्यते, व्यवसायस्यैव वा प्रतिबन्धकत्वम् , तद्वद्विशेष्यकोपस्थितेरुत्तेजकत्वाच (न?) तत्सचे प्रामाण्यग्रह इति चेत् । नैतत् कमनीयम् , गौरवात् , व्यवसायनाशोत्तरं तदग्रहप्रसङ्गाच्च, अभ्यासस्य प्रामाण्याश्रयज्ञाने प्रामाण्यग्रहणपरिणामहेतुत्वस्यैव कल्पयितुं युक्तत्वात् । न चेदेवम् , स्वप्रकाशवादोपदर्शितदिशा व्यवसायस्यैव क्षणिकत्वाद् नानुव्यवसायेन ग्रहणमिति कैव कथा प्रामाण्योपस्थितिव्यवाहितस्य तस्य ? इति | परिभावनीयम् । रहस ॥३५९॥ Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy