________________
ADMINION
सर्वज्ञप्रमायां सम्यग्दर्शनादिगुणापेक्षगादुत्पत्तौ परतस्त्वम् , ज्ञप्तौ तु सर्वज्ञज्ञानप्रामाण्यस्य स्वाश्रयेणैव ग्रहणात् स्वतस्त्वमेव ।
अत्र प्रामाण्यज्ञप्तौ स्वतस्त्व-परतस्त्वयो,दिनां विप्रतिपत्तिः। तत्र 'प्रामाण्य स्वाश्रयणैव गृह्यते' इनि प्राभाकराः; स्वानुव्यवसायिना' इति मुरारिमिश्रा, 'स्वजन्यज्ञाततालिङ्गकानुमित्या' इति भाट्टाः । इत्थं च स्वतस्त्ववादिनाममामाण्याग्राहक यावज्ज्ञानग्राहकसामाग्रीग्राह्यत्वमभिमतम् , परतस्त्ववादिना तु नैवम् । तत्र ज्ञानस्याखसंविदितत्वस्य ज्ञाततायाश्च निरासाद मिश्रमतम् , भट्टमतं चासंभवदुक्तिकम् ।
'ज्ञानधर्मत्वाज्ज्ञानप्रामाण्यं स्वत एव गृह्यताम् । अन्यथा ज्ञानत्वस्याप्यग्रहपसङ्गात् । न च पापाण्यायोग्यम् , तद्वति तत्मकारकत्वरूपस्य तस्य योग्यत्वात् , प्रकारतादेर्शानरूपत्वात्' इति प्राभाकरमतमपि न रमणीयम्; स्वधर्मस्यापि सर्वस्य खेनाग्रहात् । अन्यथा सार्वयमसङ्गात् । यदि च मामाण्यं स्वत एव गृह्यत तदा ज्ञानप्रामाण्यसंशयो न स्यात् , ज्ञानग्रहे धैर्मिज्ञा. नाभावात् ,तद्ग्रहे च प्रामाण्यनिश्चयात् , निश्चिते संशयायोगात् । न च निश्चितेऽपि प्रामाणे प्रमाणा-ऽप्रमाणसाधारणज्ञानत्वदर्शनादेतदुदय इति सांप्रतम् , साधक-बाधकप्रमाणाभावमवधय समानधर्मदर्शनादेव संशयोदये तदनुच्छेदप्रसङ्गात् । अथ निश्चितेऽपि प्रामाण्ये दोषात् तत्संशयः, तस्योत्तेजकस्थानीयत्वादिति चेत् । किमर्थमेषा कल्पना ? [प्रामाण्यग्रहहेतु. समाजोपनिपातान्यथानुपपत्तेरिति चेत् । न, स्वापाकाश्ये प्रकाश्यघटितसंबन्धनावृत्तित्वादिरूपे प्रमेयाव्यभिचारित्वलक्षणे प्रामाण्ये विषयांशऽभ्यासाख्यक्षयोपशमव्यङ्ग्यत्वादनभ्यासदशायां प्रामाण्यग्रहसामग्न्यसिद्धेः । यत्र च स्वांशे प्रामाण्पग्रह
१ क. 'प्रभाकरः' । २ ख, ग, घ. च. 'सायनेति' । ३ 'धर्माज्ञा' इति पाठो युक्तः स्यात् ।
a
yajaale
JainEducation in
For Private
Personal Use Only
www.jainelibrary.org