________________
शास्त्रवार्तासमुच्चयः ।
।। ३५८ ।।
Jain Education Intern
चेत् | अननुगतानां दोषाणामप्रमासामान्येऽपि न हेतुत्वमिति तुल्यम् । 'यावद्विशेषेऽतिरिक्त हेत्वपेक्षत्वं यद्विशेषे' इत्यादिन्यायोऽपि चोभयत्र तुल्यः । न तुल्यः शङ्खश्वैत्यादिप्रमाविशेषे पित्ताभावाद्यतिरिक्तगुणादर्शनादिति चेत् । न, अदर्शनेऽपि तत्र सम्यगुपयोगादिरूपगुणकल्पनात्; अन्यथा देहाऽऽत्माभेद भ्रमेऽपि सम्यग्दर्शनरूपगुणाभावातिरिक्तदोषादर्शनाद् मिथ्याज्ञानवासनारूपं दोषकल्पनं न स्यादिति द्रष्टव्यम् । वस्तुतो दृश्यत एवेन्द्रिये पित्तादिदोषवद् नैर्मल्यादिको गुणोऽपि । न च नैर्मल्यमिन्द्रियस्वरूपमेव, दोषेऽप्येवं सुवचत्वात्, जातमात्रस्याप्युभयरूपदर्शनात्, अनुभवभेदस्तूभयत्र परिणतिभेदे तुल्य इति दिक् ।
*
इत्थं च 'अस्तु पौरुषेयविषयेयं व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यम्' इत्यपहस्तितम् गुणनिवृत्यामामाण्यस्यापि संभवात् । तस्याप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति चेत् । दोषनिवृत्तेः प्रामाण्यं प्रति क सामर्थ्य मुपलब्धम् ? । लोकवशादिति चेत् । तदितरत्रापि तुल्यम् । लोकवचसामप्रामाण्ये दोषा एव कारणम्, गुणनिवृत्तेस्त्वसामर्थ्यमिति चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणमयुक्तः संनिधिरिति चेत् । दोषाणामपि गुणोत्सारणत्रयुक्तोऽसावि त्यस्तु । अथैवं वेदानामपौरुषेयतया गुण-दोषयोरुभयोरप्यभावे तद्धेतुकयोः प्रामाण्या-प्रामाण्ययोरभावाद् निःस्वभावत्वं स्यादिति चेत् । पामर ! हन्त ! एवं मिथ्यामतिसंनिपातग्रस्त मात्मानमुपालभस्व, यदमीषामकर्तृकत्वं प्रलपसि । करिष्यामोsa निपुणं चिकित्साम् । ततो 'यथाक्रमं द्वेषाभावस्य रागाभावस्य चाऽविनाभावेऽपि यथा प्रवृत्ति निवृत्तिप्रयत्नयो राग-द्वेषयोरेव हेतुत्वं तथा दोषाभावस्य गुणाभावस्य चाविनाभावेऽपि प्रामाण्या-प्रामाण्ययोर्गुण-दोषयोरेव हेतुत्वम्' इति वदन्ति । इत्थं च
१ ख ग घ च 'णां चि' ।
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ १० ॥
॥३५८॥
www.jainelibrary.org