SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आगमादपि तत्सिद्धि:- सर्वज्ञसिद्धि:, यत् - यस्मात् असौ- सर्वज्ञः, चोदनाफलम् - विध्युद्देश्यः, 'स्वर्ग- केवलार्थिना तपः कर्तव्यम्' इत्यादितपःप्रभृतिकर्मविधीनां स्वर्गश इव केवलांशेऽपि फले प्रामाण्यात् अथवा, चोदनाफलम् - चोदनैकवाक्यागमबोधित इत्यर्थः । तथा च "स्वर्गकामो यजेत" इत्यादिविध्येकवाक्यतया "यन्न दुःखेन संभिन्नम्" इत्यादेरिव, "आत्मानं पश्येत्" इत्यादिविध्येकवाक्यतया 'स सर्वज्ञः' इत्यादेरपि स्वार्थे प्रामाण्यमविरुद्धमिति भावः । समर्थयिष्यते चाविशेषेण सर्वेषामेवार्थवादानां प्रामाण्यमिति मा त्वरिष्ठाः । श्रुतितुल्यत्वमस्थ व्यवस्थापयति- प्रामाण्यं च तस्य सर्वज्ञस्य, स्वतःस्वातिरिक्तानपेक्षोत्पत्तिकत्वात्; नित्यत्वं च दोषक्षयाविर्भूतत्वात् श्रुतेरिव वेदस्येव । इदमभ्युच्चयेनोक्तम् । वस्तुत उत्पत्तौ सर्वत्र परत एव प्रामाण्यम् । प्रमाणं चात्र- प्रामाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनम्, ज्ञानत्वे सति कार्यत्वात्, अप्रामाण्यवदिति । यदि पुनः प्रामाण्यं ज्ञानसामान्यहेतुमात्राधीनं भवेत् तदा ममापि प्रमा स्यात् । न खलु तत्र ज्ञानसामान्यहेतुर्न विद्यते, तदनुत्पत्तिप्रसङ्गात् । अथ तत्र ज्ञानहेतुसंभवेऽप्यतिरिक्तदोषानुप्रवेशादप्रामाण्यमिति चेत् । तर्हि दोषाभावमधिकमासाद्य प्रामाण्यमुपजायते, नियमेन तदपेक्षणात् । भावहेतुमधिकं नापेक्षते प्रामाण्यमिति चेत् । न विशेषादर्शनाद्यभावस्य प्रत्यक्षे, अनुमाने च विपर्यासादिदोषाभावातिरिक्तस्य नियमगुणस्यापेक्षणात्, अन्यथा 'शब्दो नित्यः प्रमेयत्वात् ' इत्यादौ प्रमानुमितिप्रसङ्गात् । अस्त्वन्यत्र तथा शब्दे तु विप्रलिप्सादिदोषाभावे वक्तृगुणापेक्षा प्रामाण्यस्य नास्तीति चेत् । अवमेतत्, वक्तृगुणाभावे तत्राप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति चेत् । प्रामाण्यं प्रति गुणानामपि किं न तौ । अननुगतानां गुणानां प्रमासामान्ये न हेतुत्वमिति Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy