________________
समुच्चयः। ॥३५॥
सटीकः । स्तबकः। ॥१०॥
भूता सर्वसंबन्धितापि ज्ञातैव, केवलमस्मदादिज्ञाने तद्विषयत्वमनुमीयते । अनुपेयं ह्यनभ्यासदशायामितरपदार्थसंबन्धित्यम् , अभ्यासदशायां तु यत्र क्षयोपशमलक्षणोऽभ्यासस्तदग्न्यादिजन्यत्वरूपमन्यादिसंबन्धित्वं धूपादेः प्रत्यक्षतोऽपि प्रतीयते । इत्थं च 'विश्वं कस्यचित् घटसाक्षात्कारविषयः, घटसंबन्धिस्वभावत्वात् , एतद्भूतलवत्' इत्यनुमानमपि सर्वज्ञे सर्वपदाक्षिप्तं द्रष्टव्य
R म् । विषयता च विषयतांशे स्पष्टताख्याऽभिमता, तेन नास्मदादिना सिद्धसाधनम् , अर्थान्तरं वा । न चात्र घटसाक्षात्कार| नियतसाक्षात्कारसामग्रीकत्वमुपाधिः, अभ्यासेन घटसाक्षात्कारविषयायां दण्डजन्यतया दण्डसंवन्धितायां व्यभिचारेण साध्यव्यापकत्वात् । एवमस्मदादीनां घटसाक्षात्कारो विश्वसंबन्धितांशे दोषप्रतिबद्धः, तद्ग्रादित्वे सति तद्धर्माग्राहित्वात् , चैत्यापाहिशङ्खप्रत्यक्षवत् । न चात्र दृष्टान्ते साध्यवैकल्यम् , शङ्खपत्यक्षस्य चैत्यांशे दोषाप्रतिवद्धत्वात् , चैत्याभावज्ञानेनैव चैत्यज्ञा. नानुदयात् , श्वैत्याभावग्रहजनकदोषस्य श्वैत्यज्ञानप्रतिबन्धको विनश्यदवस्थदोषेण यत्र चैत्याभावग्रहो जनितस्तत्र चैयामावज्ञानोत्पत्त्यनन्तरं चैत्यज्ञानोत्पत्तिप्रसङ्गादिति वाच्यम् । तदा बाह्यदोषापगमेऽप्यान्तरदोषानपगमात् , आन्तरदोषापगमस्य कायकोन्नेयत्वात् , इतरहेतूनां तदपगम एव व्यापारात् , तस्य च दोषस्य कचित् पित्तादिवदेवापगमात् सिध्यति सर्वज्ञः । तदिदमाह- इति हेतोः, नानुमानं न विद्यते- किन्तु विद्यत एव सर्वज्ञेऽनुमानम् ॥ १४ ॥
आगमादपि तत्सिद्धिरित्याहआगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् ।प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव ॥
||३५७॥
For Private Personal Use Only
www.jainelibrary.org