SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ समुच्चयः। ॥३५॥ सटीकः । स्तबकः। ॥१०॥ भूता सर्वसंबन्धितापि ज्ञातैव, केवलमस्मदादिज्ञाने तद्विषयत्वमनुमीयते । अनुपेयं ह्यनभ्यासदशायामितरपदार्थसंबन्धित्यम् , अभ्यासदशायां तु यत्र क्षयोपशमलक्षणोऽभ्यासस्तदग्न्यादिजन्यत्वरूपमन्यादिसंबन्धित्वं धूपादेः प्रत्यक्षतोऽपि प्रतीयते । इत्थं च 'विश्वं कस्यचित् घटसाक्षात्कारविषयः, घटसंबन्धिस्वभावत्वात् , एतद्भूतलवत्' इत्यनुमानमपि सर्वज्ञे सर्वपदाक्षिप्तं द्रष्टव्य R म् । विषयता च विषयतांशे स्पष्टताख्याऽभिमता, तेन नास्मदादिना सिद्धसाधनम् , अर्थान्तरं वा । न चात्र घटसाक्षात्कार| नियतसाक्षात्कारसामग्रीकत्वमुपाधिः, अभ्यासेन घटसाक्षात्कारविषयायां दण्डजन्यतया दण्डसंवन्धितायां व्यभिचारेण साध्यव्यापकत्वात् । एवमस्मदादीनां घटसाक्षात्कारो विश्वसंबन्धितांशे दोषप्रतिबद्धः, तद्ग्रादित्वे सति तद्धर्माग्राहित्वात् , चैत्यापाहिशङ्खप्रत्यक्षवत् । न चात्र दृष्टान्ते साध्यवैकल्यम् , शङ्खपत्यक्षस्य चैत्यांशे दोषाप्रतिवद्धत्वात् , चैत्याभावज्ञानेनैव चैत्यज्ञा. नानुदयात् , श्वैत्याभावग्रहजनकदोषस्य श्वैत्यज्ञानप्रतिबन्धको विनश्यदवस्थदोषेण यत्र चैत्याभावग्रहो जनितस्तत्र चैयामावज्ञानोत्पत्त्यनन्तरं चैत्यज्ञानोत्पत्तिप्रसङ्गादिति वाच्यम् । तदा बाह्यदोषापगमेऽप्यान्तरदोषानपगमात् , आन्तरदोषापगमस्य कायकोन्नेयत्वात् , इतरहेतूनां तदपगम एव व्यापारात् , तस्य च दोषस्य कचित् पित्तादिवदेवापगमात् सिध्यति सर्वज्ञः । तदिदमाह- इति हेतोः, नानुमानं न विद्यते- किन्तु विद्यत एव सर्वज्ञेऽनुमानम् ॥ १४ ॥ आगमादपि तत्सिद्धिरित्याहआगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् ।प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव ॥ ||३५७॥ For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy