________________
गौरवेण पक्षातिरिक्तत्वानिवेशात् । न च तथाप्यंशतः सिद्धसाधनम् , पक्षसामान्ये साध्यासिद्ध्या तस्यादोपत्वादिति दिग। वस्तुतस्तत्त्वत एकार्थदर्शनमपि सर्वदर्शनाविनाभावितदुक्तम्- “जे' एग जाणइ से सव्वं जाणई" इत्यादि । एतदनुसारिभिः पूर्वाचारस्यायमर्थः प्रत्यज्ञायि
"एको भावस्तत्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः ॥१॥" इति । न चैतदयुक्तम् , एकस्यापि पदार्थस्यानुगत-व्यावृत्तधर्मद्वारेण सर्वपदार्थसंबन्धिस्वभावत्वात् , तदवेदने तत्वतोऽधिकृतवस्त्ववेदनात् । केवलमभिमानमात्रमेव लोकानां तत्र- 'तत्त्वतो दृष्टोऽयमर्थः' इति । अथ संबन्धिस्वभावता पदार्थस्य स्वरूपमेव न भवति, यत् केवलं प्रत्यक्षप्रतीतं संनिहितवस्तुमात्रं स एव वस्तुस्वभावः, संबन्धिता तु तत्र पदार्थान्तरपतिसंधानसंभवितया परिकल्पितैव; तदुक्तम्--
"निष्पत्तेरपराधीनमपि कार्य स्खहेतुना | संबध्यते कल्पनया किमकार्य कथञ्चन? ॥१॥" व इति चेत् । अयुक्तमेतत् , इत्थं कल्पनायां स्वरूपमात्रसंवेदनादद्वैतपर्यवसाने व्यवहारोच्छेदात् , तद्भिया बहिष्पदार्थाभ्युपगमे च तन्नियतसर्वसंबन्धिताया अप्यवश्याभ्युपेयत्वात् । अन्यथा नियतस्वरूपासिद्धेः । न चातिरिक्तैव सर्वसंबन्धिता न तु स्वापृथग्भूतेति वाच्यम् । अत्यन्तभेदे संबन्धाभावात् , भावे वाऽनवस्थानात् । तथा च तत्पदार्थपरिज्ञाने तस्य विशेषण
१य एकं जानाति स सर्व जानाति ।
Jan Educatan
For Private Personal Use Only
www.jainelibrary.org