________________
समुच्चयः ॥३५६॥
वयनुमाने पक्ष-दृष्टान्तहेतु-साध्यव्यक्त्योरत्यन्तवलक्षण्याननुभवात् सामान्योपग्रहेणैा दोषोद्धारः, व्याप्तिवलात सामान्यसिद्धावपि सटीक पक्षधर्मताबलाद् नियतविशेषसिद्धरित्युपगम्यते, तदा प्रकृतेऽपि तुल्यम् । न चात्राप्रयोजकत्वम् , विपक्षवाधकतर्काभावादिति R: स्तवः । वाच्यम्। 'ज्ञानं साश्रयम् , गुणत्वात् , रूपादिवत्' इत्यादाविव बाधकाभावे निरुपाधिसहचाररूपस्यैव तर्कस्य सत्चात , ॥१०॥ अन्यथेशानुपानसहस्रोच्छेदात् । यदि चात्र गुणा-ऽऽश्रययोः कार्यकारणभाव एव परम्परया तर्कः, तदा प्रकृतेऽपि धर्माद्यध्यक्षज्ञानयोः स एवाश्रीयताम् , विना सर्व धर्माद्यारिज्ञानस्यान्यतो व्यवस्थापयिष्यमाणत्वात् । ईदृशप्रत्यक्षाश्रयं परिशेषयनाह- कस्यचिदिति, अस्मदादीनां बुद्धादीनां च च्छ अस्थत्वात् , दृष्टे टविरुद्धभाषित्वाचाहत्येव धर्मादिसाक्षात्कर्तृत्वविश्रामादिति भावः । तेन न साध्यासिद्धिः. इष्टासिद्धिा, साध्यकोटौ विशिष्यानिवेशात , परिशेषस्य विशेषतर्पवसायित्वाच्चेति द्रष्टव्यम् । सर्वज्ञवादिभिरपि कैश्चित् सर्वज्ञः कतिपयेष्टार्थ येवा धुपगम्पते, न तु विश्वष्टा, यदुक्तम्--
"सर्व पश्यतु वा मा वा तच्चमिटं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ १॥" तथा-- ___“सर्वं पश्यतु वा मा वा इष्टमर्थ तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् गृध्रान् प्रपूजय ॥ १॥” इति ।
तदभिमतनिरासपूर्वकस्वाभिमतसिद्ध्यर्थं पक्षविशेषणमाह- सर्व एवेति । न चैवं घटादेः पक्षपविष्टत्वे सपक्षत्वानुपपतिः, तदप्रविष्टत्वे च 'सर्व एवं' इत्यसिद्धमिति वाच्यम् ; पक्षपविष्टत्वेऽपि निश्चितसाध्यधर्मत्वेन सपक्षत्वाविरोधात् , तत्र ॥३५६॥
Jan Education International
For Private Personal Use Only
www.jainelibrary.org