SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ विषय- विश्वगोचरम् , तदा, एतस्य- सर्वज्ञस्य, अभावः कथम् , विश्वगोचरज्ञानाश्रयस्यैव सर्वज्ञत्वात् । न चेत तत प्रत्यक्षं सर्वार्थविषयम् , अत्रापि- एतत्पक्षेऽपि, अदः- अभावः कथमेतस्य ? इति, समम् , प्रत्यक्षेण सतोऽप्यर्थस्यातिदूरत्वादिनाग्रहणात् तदभावासिद्धेः, अन्यथा धर्मादेरप्यभावप्रसङ्गात् । अनिष्टं चैतद् मीमांसकस्यास्तिकताभिमानिनः । चार्वाकस्तु वराकोऽतीन्द्रियमात्रोच्छेदमिच्छन्ननुपलब्धिमात्रादर्थाभावं साधयन् स्वगृहाद् निर्गतः स्वगृहे पुत्रादीनामप्यभावमवगच्छेत् । अधिकरणासंनिकर्षाद् न तदवगम इति चेत् । तीतीन्द्रियाश्रयस्याप्यसनिकर्षे तदभावासिद्धेहतं चार्वाकमतम् , अधिकरणज्ञानमात्रादतीन्द्रियाभावसिद्धौ च प्रकृतेऽप्यधिकरणस्मृतिसत्त्वात् तदापत्तिः। तदुपलम्भावभावेनानुपलब्धेस्तदभाव साधकत्वं त्वसंभवदुक्तिकम् , स्वभावविरोधादिति न किश्चिदेतत् । तदेवं प्रत्यक्षं न बाधकमित्युक्तम् ॥ १३ ॥ अनुमानं तु तत्साधकमेवेत्याहधर्मादयोऽपि चाध्यक्षा ज्ञेयभावाद्घटादिवत्। कस्यचित्सर्व एवेति नानुमानं न विद्यते॥१४॥ धर्मादयोऽपि च-ये परस्य चोदनागम्याः स्वतन्त्रसिद्धा वाऽजीवकायविशेषास्ते धर्मिणः। अध्यक्षा इति साध्यो धर्मः । ज्ञेयभावादिति हेतुः, ज्ञेयत्वादित्यर्थः । घटादिवदिति दृष्टान्तः। साध्यहेतुविकल्पकृतदोषस्तु प्रसिद्धानुमानेऽपि तुल्यः; तथाहि- यदि पर्वतीयो वह्निः साध्यते तदा साध्यविकलो दृष्टान्तः । अथ महानसीयस्तदा बाधः । एवं धृमेऽपि यदि पर्वतीयो हेतुस्तदाऽनन्वयः। यदि च महानसीयस्तदाऽसिद्धता । सामान्योपग्रहोऽप्यतिविलक्षणव्यक्त्योरसंभवीति । यदि च JainEducata For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy