________________
विषय- विश्वगोचरम् , तदा, एतस्य- सर्वज्ञस्य, अभावः कथम् , विश्वगोचरज्ञानाश्रयस्यैव सर्वज्ञत्वात् । न चेत तत प्रत्यक्षं सर्वार्थविषयम् , अत्रापि- एतत्पक्षेऽपि, अदः- अभावः कथमेतस्य ? इति, समम् , प्रत्यक्षेण सतोऽप्यर्थस्यातिदूरत्वादिनाग्रहणात् तदभावासिद्धेः, अन्यथा धर्मादेरप्यभावप्रसङ्गात् । अनिष्टं चैतद् मीमांसकस्यास्तिकताभिमानिनः । चार्वाकस्तु वराकोऽतीन्द्रियमात्रोच्छेदमिच्छन्ननुपलब्धिमात्रादर्थाभावं साधयन् स्वगृहाद् निर्गतः स्वगृहे पुत्रादीनामप्यभावमवगच्छेत् । अधिकरणासंनिकर्षाद् न तदवगम इति चेत् । तीतीन्द्रियाश्रयस्याप्यसनिकर्षे तदभावासिद्धेहतं चार्वाकमतम् , अधिकरणज्ञानमात्रादतीन्द्रियाभावसिद्धौ च प्रकृतेऽप्यधिकरणस्मृतिसत्त्वात् तदापत्तिः। तदुपलम्भावभावेनानुपलब्धेस्तदभाव साधकत्वं त्वसंभवदुक्तिकम् , स्वभावविरोधादिति न किश्चिदेतत् । तदेवं प्रत्यक्षं न बाधकमित्युक्तम् ॥ १३ ॥
अनुमानं तु तत्साधकमेवेत्याहधर्मादयोऽपि चाध्यक्षा ज्ञेयभावाद्घटादिवत्। कस्यचित्सर्व एवेति नानुमानं न विद्यते॥१४॥
धर्मादयोऽपि च-ये परस्य चोदनागम्याः स्वतन्त्रसिद्धा वाऽजीवकायविशेषास्ते धर्मिणः। अध्यक्षा इति साध्यो धर्मः । ज्ञेयभावादिति हेतुः, ज्ञेयत्वादित्यर्थः । घटादिवदिति दृष्टान्तः। साध्यहेतुविकल्पकृतदोषस्तु प्रसिद्धानुमानेऽपि तुल्यः; तथाहि- यदि पर्वतीयो वह्निः साध्यते तदा साध्यविकलो दृष्टान्तः । अथ महानसीयस्तदा बाधः । एवं धृमेऽपि यदि पर्वतीयो हेतुस्तदाऽनन्वयः। यदि च महानसीयस्तदाऽसिद्धता । सामान्योपग्रहोऽप्यतिविलक्षणव्यक्त्योरसंभवीति । यदि च
JainEducata
For Private Personal use only