SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो समुच्चयः । ॥३५५।। यार्थदर्शिना पुंसा, नास्ति प्रयोजनं किञ्चित्, तत्साध्यस्य परलोकादिसाधनस्य वेदादेव सिद्धेः । मुक्तिश्च न सार्वश्यगर्भा, दुःखनिवृत्तिरूपाया नित्यनिरतिशय सुखाभिव्यक्तिरूपायास्तस्यास्तदगर्भत्वादिति निगर्वः ॥ ११ ॥ इत्थमापतति जैमिनिशिष्ये नास्तिकत्वमिह यत्खलु गूढम् । दर्शयन्ति तदनेकसमक्षं वेदनैपुणपटापगमेन ॥ १ ॥ अत्रापि ब्रुवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकाऽवृत्तिः कथं तत्रोपपद्यते ? ॥१२॥ अत्रापि - मीमांसकानां सर्वज्ञाभाववादेऽपि समुपस्थिते, ब्रुवते केचित् सर्वज्ञवादिनो जैनाः, इत्थम् एवं यदुतप्रमाणपञ्चकाऽवृत्तिः — प्रमाणपञ्चकाविषयत्वम्, कथं, तत्र सर्वज्ञे, अभावप्रमाणोत्थापकम् उपपद्यते ?- नैवोपपद्यत इति भावः ।। १२ ।। तथाहि- Jain Education International सर्वार्थविषयं तच्चेत्प्रत्यक्षं तन्निषेधकृत् । अभावः कथमेतस्य, न चेदत्राप्यदः समम् ? ॥ १३ ॥ यत् तावदुक्तम्- 'प्रेत्यक्षेण' इत्यादि, तत्- प्रक्रान्तम्, तन्निषेधकृत् - सर्वज्ञनिषेधकारि, प्रत्यक्षं, चेत्- यदि, सर्वार्थ१ ख. ग. ध. च. 'लोकसा' २ प्रकृतस्तव के लो० २ । For Private & Personal Use Only सटीकः । स्तवकः । ॥ १० ॥ ॥ ३५५॥ Phelww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy