________________
वापी-कूप-तडागानि च पुनः, देवताऽऽयतनानि- लोकसिद्धानि, तथा, अन्नप्रदानं भोजनदानम् इत्येतत् सर्व 'पूर्तम्' इत्यभिधीयते, भोगफलत्वात् ॥ ९ ॥
तथा
अतोऽपि शुक्लं यद् वृत्तं निरीहस्य महात्मनः । ध्यानादि मोक्षफलदं श्रेयस्तदभिधीयते ।१० ॥ अतोऽपि - इटा-पूर्वात् शुक्लं- शुद्धमित्यर्थः, यद् वृत्तम्- आचरितम्, निरीहस्य- निस्पृहस्य, महात्मनः- योगिनः । किं तत् ? इत्याह-ध्यानादि । किंभूतम् ? इत्याह- मोक्षफलदम्- अपवर्गरूपफलप्रदम्, तत् श्रेयोऽभिधीयते श्रेयहेतुत्वात् । एवमिष्टम्, पूर्तम्, श्रेयश्रेति त्रिधा कर्मव्यवस्था वेदादेवेत्युपपादितम् ।। १० ।।
व्यवस्थान्तरमपि तत एवोपपादयन्नाह -
वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि । अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् ११३
एवं वर्णानां ब्राह्मण-क्षत्रिय-वैश्यशूद्राणां आश्रमाणां च गृहि ब्रह्मचारि वानप्रस्थ- संन्यासिलक्षणानां व्यवस्थापि सर्वा - लोकविदिता, हि- निश्चितम् तत्प्रभवैव- वेदमूलैव, वेदादिनोपवीतादिना चिह्नेनं सन्ध्या-पट्कर्माद्याचारेण च ब्राह्मव्यादिनिर्णयात् ब्राह्मणादीनां कर्मविशेषेऽधिकार निर्णयाच्चेति भावः । ततः किम् ? इत्याह- अतीन्द्रियार्थद्रष्ट्रा अतीन्द्रि
१ ख. ग. घ. व. 'न ष' ।
Jain Education ational
For Private & Personal Use Only
www.jainelibrary.org