________________
शास्त्रवार्ता- इष्टा-पूर्तादिभेदोऽस्मात् सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः ॥७॥
सटीक समुच्चयः।
o स्तबकः। ॥३५॥ इष्टा-पूर्तादिभेदः, अस्मात्- वेदात , सर्वलोकमतिष्ठितः- सर्वजनसिद्धः। ननु स्वर्गादाविष्टा-पूर्तादिभेदधर्मस्य कथं
॥१०॥ सिद्धिः, सर्वज्ञाभाव आदिसंप्रदायाप्रवृत्तेः ? इत्यत आह- व्यवहारप्रसिद्ध्यैव- व्यवहारस्यानुष्ठानस्य प्रकृष्टाऽनादिपरम्पराप्रयोज्या या सिद्धिस्तयैव, तथा च सर्ग-प्रलयाभावात् प्रवाहविच्छेदाभावाद् नाद्यसंप्रदायाप्रवृत्तिरिति भावः । कथं व्यवहारोऽनादिः ? इत्यत्र निदर्शनमाह- यथैव दिवसादयः- यथा दिवसादयो दिवसादिपूर्वका एव दृश्यन्ते तथा व्यवहारोऽपि व्यवहारपूर्वक इति भावः ॥७॥
इष्टादिस्वरूपमाहa ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः। अन्तर्वेद्यांतु यदत्तमिष्टं तदभिधीयते ॥८॥
ऋत्विग्भिः- यजमानसहायैः, मन्त्रसंस्कारैः पूतं सद् यद् ब्राह्मणानां समक्षतः-प्रकृत-प्रतिग्रहीत्रतिरिक्तब्राह्मणानां प्रत्यक्षम् , अन्तर्वेधां वेदीमध्य एव, दत्तं-हिरण्यादि, तदिष्टमभिधीयते ।। ८॥ तथा
॥३५४॥
वापी-कूप-तडागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ॥९॥
For Private
Personal Use Only
www.jainelibrary.org