________________
Jain Educat
चित्यात्, निमित्तपवना-ssकाशादेः समवायेन शब्दत्वस्य जन्यतावच्छेदकत्वापेक्षया कण्ठाद्यभिघातस्य निमित्तपवन संयोगोपक्षीणत्वात् तस्यैवोक्तसंबन्धेन शब्दत्वस्य जन्यतावच्छेदकत्वौचित्यात् तावतैव कोलाहलप्रत्यक्षस्य सुघटत्वात् । न चैवमुच्चार्यमाणयावद्वर्णविपयत्वानियमे तत्कृतकोलाहलतारतम्यप्रत्ययानुपपत्तिः, व्यञ्जकतारतम्यस्यैव तत्रारोपात् । अस्तु वा स्वाश्रयविषयितया कस्वादिकं तथा, अनन्तशब्दोत्पत्ति-नाशादिकल्पनातो लघुत्वात् शुकादिककारायेव वा विषयितया तथा, तदीयश्रावणसमय तदीयश्रावण विशेषणत्वयोस्तदीय समवेत प्रत्यक्ष- समवेतनिष्ठाभावप्रत्यक्षयोः कारणत्वाच्च न शब्दत्वादिप्रत्यक्षातिप्रसङ्ग इति दिग् ॥ ५ ॥
उक्तमेवार्थं तदभियुक्तोक्त्यनुवादेन द्रढयति
आह चालोकवद्वेदे सर्वसाधारणे सति । धर्मा-धर्मपरिज्ञाता किमर्थं कल्प्यते नरः ? ॥६॥
आह च- कुमारिलादिः, आलोकवत् - चाक्षुषहेतुप्रकाशवत् वेदे सर्वसाधारणे सति - नित्यनिर्दोषतया प्रतिसर्वप्रमातृ तुल्यप्रमार्जन के सति, धर्मा-धर्मपरिज्ञाता- धर्मा-धर्मसाक्षात्कर्ता, नरः- मनुष्यः, किमर्थं कल्प्यते १ - चोदनैव हि धर्मा-धर्मावगमयन्ती प्रवृत्ति निवृत्यादिव्यवहारं स्वर्गापवर्गादिफलं च जनयति, इति किमजागलस्तनायमानेन सर्वज्ञेन ? | चोदनाप्रामाण्यार्थं सर्वज्ञः वल्प्यत इति चेत् । न, उपजीव्यत्वेन महाजनपरिग्रहस्यैव तत्प्रामाण्यव्यवस्थापकत्वादिति भावः ||६|| यथा वेदाद् धर्मा-धर्मपरिज्ञानं सिध्यति, तथाह
emational
For Private & Personal Use Only
www.jainelibrary.org