SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥ ३५३॥ तीत्यन्यथानुपपत्या च गवादिशब्दानां गवादौ शक्तिकल्पनात् । इत्थंभूतचार्य संगत्यवगमो न सकृद्वाक्यप्रयोगात् संभवति, भूयः प्रयोगादेवाऽऽवापो द्वापाभ्यामेव शक्तिनिश्चयात् । न चास्थिरस्य पुनःपुनरुच्चारणं संभवतीति सिद्धं तन्नित्यत्वम् ; तदुक्तम्"दर्शनस्य परार्थत्वाद् नित्यः शब्दः" इति । अथ पुनः पुनरुच्चरिताच्छन्दात् सादृश्यादेव प्रतीतिः, न तु नित्यत्वादिति चेत् । न, सादृश्यस्यातन्त्रत्वात्, अगृहीत संकेतादर्थाप्रतीतेः 'य एव संवन्धग्रहणसमये गृहीतः शब्दः स एवायम्' इति प्रत्यभिज्ञानाच्च । न च नित्यत्वे शब्दस्य सर्वदा सर्वोपलब्धिप्रसङ्गः परेषां शब्दोत्पादकानामेव विजातीय वायुसंयोगादीनामस्माभिः शब्दव्यञ्जकत्वेनोपगमात् । न च शब्दनित्यत्वे चैत्रादेः स्वीयमैत्र-शुकादीयककारादिप्रत्यक्षे चैत्रादिकर्णावच्छिन्ना विजातीयवायुसंयोगा तो वाच्या इत्यतिगौरवम्, अनित्यत्वपक्षे तु विजातीयवायुसंयोगावच्छेदकतया तथैव विजातीयककारादौ हेतुस्तत्पुरुषीयनिखिल शब्द प्रत्यक्षे तत्पुरुषीयकर्णावच्छिन्नसमवाय इति लाघवमिति वाच्यम्; नित्यत्वपक्षेऽपि विजातीयककारादिप्रत्यक्षेऽवच्छेदकतया विजातीयसंयोगस्य, तत्तत्कर्णावच्छिन्नप्रत्यक्षे च तत्तत्कर्णस्य हेतुत्वे गौरवाभावात्, स्वावच्छेदकश्रोत्रसंयुक्तमनःप्रतियोगिऋविजातीयसंयोगसंबन्धेन विजातीयपवनस्य हेतुत्वे तत्तत्कर्णानां पृथगहेतुत्वेन प्रत्युत लाघवात् । न च तथाप्यनित्यत्वपक्षे कप्रत्यक्षत्वाद्यपेक्षया कत्वादेरेव जन्यतावच्छेदकत्वे लाघवम् नित्यत्वपक्षेऽपि लौकिकविषयितय कत्वादेरेव तथात्वात् । न च कोलाहलादौ कत्वादेरग्रहेऽपीदंत्व-शब्दत्वादिना ककारादिमत्यक्षात् तत्तत्मकारककारादिप्रत्यक्षे पृथग्धेतुत्वे गौरवम्, ककारादिनिष्ठगुणत्वादि खकार भेदादिप्रत्यक्षे तथात्वे चातिगौरवमिति वाच्यम्; कोलाहले कत्वादिग्रहवारणाय दोषाभावानां कत्वादिप्रत्यक्षे हेतुत्वमपेक्ष्योक्तसंबन्धेन कत्वादेर्विजातीयनिमित्तपवन संयोगजन्यतावच्छेदकत्वस्यैवौ Jain Education tional For Private & Personal Use Only सटीकः । स्तवकः । ॥ १० ॥ ॥ ३५३॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy