________________
धर्माधर्मव्यवस्था तु वेदाख्यादागमात्किल । अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः॥५॥
धर्मा-ऽधर्मव्यवस्था तु- 'यागादि धर्मसाधनम् , ब्रह्महत्याद्यधर्मसाधनम्' इत्यादिज्ञानजन्यप्रवृत्तिनिवृत्यादिरूपा तु, Doवेदाख्यादागमात् , 'किल' इति सत्ये, 'घटत एवं' इति शेषः । ननु वेदस्यापि सर्वज्ञप्रणीतस्यैवोक्तव्यवस्थानिबन्धनत्वात्
सर्वज्ञमूलैवेयं व्यवस्थेत्यत आह- असौ-वेदाख्य आगमः, यस्मादपौरुषेयः- नित्या, हेतुदोषविवर्जितः- चक्षुर्गतभ्रमप्रमादविप्रलिप्सा-करणापाटवादिदोषविकल इत्यर्थः । तथा च स्वतःप्रमाणत्वाद् युक्ता वेदमूला धर्मा-ऽधर्मादिव्यवस्था। अथाप्रमायामिव प्रमायामपि ज्ञानसामान्यहेत्वतिरिक्तहेत्वपक्षणाद् नैतद् युक्तमिति चेत् । न, अप्रमायां दोषापेक्षणात् , प्रमायां तदभावापेक्षणे. विरोधात् । विशेषादर्शनाधभावभूतदोषाभावस्य भावभूतस्य प्रमायामधिकस्यापेक्षणीयत्वाद् विरोध एवेति चेत् । न, तथापि शब्दे विप्रलिप्सादिदोषाणां भावभूतत्वात् समष्टया प्रमायां तदभावमात्राधीनायां वक्तगुणानपेक्षणात् । अयाप्तोक्तत्वनिश्चयस्य शाब्दबोधसामान्ये हेतुत्वाद् वेदे तदभावात् कथं ततः शाब्दबोधः ? इति चेत् । न, अनाप्तोक्तत्वशङ्काया एव शाब्दसामान्य| विरोधिन्या व्युदासार्थमाप्तोक्तत्वनिश्चयापेक्षणात् , वेदे तु नित्यतया निदोषत्वेनैव तच्छकाव्युदासात् ।
नित्यत्वमेव कथं वर्णरूपस्य वेदस्य ? इति चेत । सत्यम् , वर्णानां नित्यत्वात् । अन्यथा परार्थवाक्योच्चारणान्यथानुपपत्तेः । अवगतसंगतिको हि शब्दः स्वार्थ प्रतिपादयति, नान्यथा, अगृहीतसंकेतस्य पुंसः शब्दादर्थप्रतीत्यदर्शनात् । संगत्यवगमश्च प्रमाणत्रयसंपाद्यः, तटस्थेन प्रत्यक्षेण शब्दार्थप्रत्ययात् । अनुमानेन प्रयोज्यद्धीयगवादिविषयप्रतिपत्त्यवगमात् तत्य.
ववव
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org