________________
शास्त्रवार्तासमुच्चयः ।। ॥३५२॥
प्रसङ्गः । किञ्च परसंतानवर्तिरागादिसाक्षात्करणादस्य रागादिमत्वमपि स्यात् । अपिच, अतीतकालायाकलितस्य वस्तुनो विद्यमानतया तेन प्रतिसंघाने भ्रान्तत्वापत्तिः; अन्यथा च तज्ज्ञानस्य प्रत्यक्षतानुपपत्तिः, अवर्तमानविषयत्वात् । अपिच, वस्तुनः प्रागभाव ध्वंसयोस्तस्य युगपद् भानाद् युगपज्जात मृत व्यपदेशापत्तिः । किञ्च, सर्वज्ञकालेऽपि सर्वज्ञो (असर्वज्ञैः ) न ज्ञातुं पार्यत इति कथं तद्वाक्यविश्वासः । इति बहुसर्वज्ञकल्पनापत्तिः, तदुक्तम्
“सर्वज्ञोऽयमिति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १ ॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्वहवस्तव । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥ २ ॥
सर्वज्ञो नावबुद्धयेनैव स्याद् न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥ ३ ॥” इति । किञ्च, नित्यसमाधानसंभवे विकल्पाभावात् कथं सर्वज्ञस्य वचनम् ? । वचने वा विकरसंभवात् समाधानविरोधाद् न समाहितत्वं स्यात् । समाधिर्हि चित्तवृत्तिनिरोधः, विकल्पथ चित्तवृत्तिरिति । अपिच रागाद्यावरणाभावे पैरेण सार्वज्ञयं वाच्यम्, रजोनीहाराद्यावरणापाये वृक्षादिदर्शनस्येव रागाद्याव रणरूपविज्ञानावैशद्यहेत्वपाये सर्वज्ञज्ञानस्य विशदताऽभिपानात् : तथा च रागाद्यभावे कथं तस्य वचनादि, प्रवृत्तिसामान्य इच्छाया हेतुत्वात् । न च रागादीनामावरणत्वमपि प्रसिद्धम्, कुड्यादीनामेव ह्यावारकत्वप्रसिद्धिः, इति कथं तदपगमे सर्वसाक्षात्कारोदय: १ इति दिग् ॥ ४ ॥
सर्वज्ञाभावे धर्मा-धर्मव्यवस्थामेव सम्यगुपपादयितुमाह -
१ लोकवार्तिके पृ० ८६ । २ जैनेन ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ १० ॥
| ॥३५२ ॥
www.jainelibrary.org