________________
Jain Educati
raise हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । सजातीरनतिक्रामन्नतिशेते परान् नरान् ॥ ३ ॥ एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न च शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते ॥ ४ ॥ ज्ञात्वा व्याकरणं दूरबुद्धिः शब्दाऽपशब्दयोः । प्रकृष्यते न नक्षत्र- तिथि-ग्रहण निर्णये ॥ ५ ॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्क-ग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ ६ ॥ तथा वेदेतिहासादिज्ञानातिशयवानपि । न स्वर्ग देवता- पूर्वप्रत्यक्षीकरणे क्षमः ॥ ७ ॥
दशहस्तान्तरं व्योनि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ ८ ॥ " कथं च धर्मादिग्राहिज्ञानस्योत्पत्तिः ? | अभ्यासादिति चेत् । न, अक्षाणां रूपादावेव प्रवृत्तेः, अनुमानस्यापि धर्मादावव्यापारात् । आगमप्रभवस्यापि ज्ञानस्याभ्यासे तस्य सर्वज्ञप्रणीतस्यैवाश्रये चक्रक्रमसङ्गात्, अस्पष्टज्ञानस्याभ्यासशतेनापि स्पष्टताया अयोगाच्च । अथ दृश्यत एव काम-शोकायुपप्लुतचेतसामस्पष्टस्यापि ज्ञानस्य स्पष्टत्वम् उक्तं च-
“काम-शोक-भयो-न्माद-रोग-शोकाद्युपद्रुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ।। १ ।। " इति ।
तदेतदपि स्यादिति चेत् । न तद्वदेवास्याप्युपप्लुतत्वप्रसक्तेः । अथागमजं ज्ञानमेवाभ्यासात् साक्षात्कारी भवतीति नाङ्गीकारः, किन्तु तदभ्यासात् श्रवणादिक्रमेण तदुत्पत्तिरिति न दोष इति चेत् । न, परोक्षादपरोक्षोत्पत्यदर्शनात्, श्रवणादेः प्रत्यक्षप्रमाकरणत्वेन प्रत्यक्षप्रमाणत्वप्रसङ्गाच्च । अपि च, सर्वज्ञज्ञानेनैकक्षण एवं समस्तार्थग्रहण उत्तरकालं तस्याकिञ्चिज्ज्ञत्व
mational
For Private & Personal Use Only
www.jainelibrary.org