________________
शानवातासमुच्चयः
सटीकः। स्तवकः। ॥१०॥
पत्तेरभावभ्रमकरणवाभावप्रमाकरणत्वमपीन्द्रियस्यैवेत्याशङ्कनीयम् ; दोषसाहित्यरूपदुष्टताया अनुपलब्धावपि संभवात् । अथाधिकरणविशिष्टाभावधीनेन्द्रियजा, अभावधीत्वात नानुपलब्धिकरणिका, भावधीत्वात् । नोभयजन्या, प्रमाणयोर्विरोधात् , अविरोधे सांकर्यात् । इतीन्द्रियमेव विशिष्टग्राहि स्वीकार्यम् । न च घ्राणोपनीतसौरभेण चन्दनस्येवानुपलब्धिगृहीतेनाभावेन भूतलस्यापि चक्षुषैव ग्रहः, विशेषणभूताभावग्राहकतयाऽनुपलब्धेः स्वीकारादिति वाच्यम् , तथापि प्रतियोगिविशिष्टाभावग्रहस्यानुपलब्ध्या संभवादिति चेत् । न, अनुपलब्धिजन्य एव विशिष्टज्ञाने ज्ञानोपनीतयोरधिकरण-प्रतियोगिनोविशेष्यतया विशेषणतया च भावग्रहसामग्रीमहिम्ना भानादिति दिग् । तदेवमभावप्रमाणात् सर्वज्ञाभाव एव सिद्ध्यतीति सिद्धम् ।
एवं 'विप्रतिपन्नप्रत्यक्षं यदि सूक्ष्माद्यर्थग्राहकं स्यात् , प्रत्यक्षं न स्यात्' इत्यादि प्रसङ्गसाधनमपि द्रष्टव्यम् । न च गृध्रादीनां चक्षुरादिज्ञानेऽपूर्वदर्शित्वाधतिशयदर्शनाद् नराणामपि प्रज्ञा-मेधादिभिस्तदर्शनात् कस्यचिदतीन्द्रियार्थद्रष्टुत्वेनाप्यतिशयः स्यादिति संभावनीयम् , गृध्रादीनामपि स्वविषय एव रूपादौ चक्षुरादेर्दरदर्शित्वादिविशेषदर्शनात् , विषयपरित्यागेन रूपादौ श्रोत्रादिवृत्तरतिशयम्यादर्शनात , सर्वज्ञे चक्षराद्यविषयमूक्ष्माद्यर्थद्रष्टत्वासिद्धेः । प्रज्ञा-मेधादिभिरपि नराणां स्तोकस्तोकान्तरत्वेनैवातिशयदर्शनाद् विषयान्तरे प्रकर्षपर्यन्तं च तददर्शनादुक्तासिद्धेः तदुक्तम् ।
“यत्राप्यतिशयो दृष्टः स स्वार्थानतिलानात् । दूर-मूक्ष्मादिदृष्टौ स्याद्, न रूपे श्रोत्रवृत्तितः ॥१॥
येऽपि सातिशया दृष्टाः प्रज्ञा-मेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ २॥ १ इतः 'संभवात्' इत्यन्तः पूर्वपक्षः। २ ख.ग.प.च. 'स्वोका'। ३ मुद्रितश्लोक० पृ० ८२ ।
Haotos
॥३५॥
Jan Education inte
For Private
Personal Use Only
Alww.jainelibrary.org