________________
ETTERसहरकारक
पलम्भानुमानसंभवात् । 'वायौ रूपाभावं पश्यामि' इति धीस्तु भ्रान्तैव । अथानुपलम्भे विशेषाभावाच्चक्षुषाऽभावग्रह आलोको हेतुर्न तु त्वचेति कुतः ? इति चेत् । सत्यम् , चक्षुरादाविवालोकादेरप्यधिकरणज्ञानविशेष एवोपयोगात्, अभावज्ञानेऽनुपलम्भविशेषकृतविशेषाभावेऽप्यधिकरणज्ञानविशेषकृतविशेषोपपत्तेः । अत एव 'घटाभावं पश्यामि' इत्यप्यविगानं समर्थितम् , 'पश्यामि' इति विषयताविशेपे संनिकर्षदोषविशेषादिवदधिकरणज्ञानविशेषस्यापि नियामकत्वात् । न चैवं गौरवम् , अभावज्ञान आलोकादिहेतुत्वाकल्पनलाघवात् । न चाज्ञातकरणकत्वादभावज्ञानमपरोक्षमित्यप्याशङ्कनीयम् , कचिज्ज्ञाताया एवानुपलब्धेः करणत्वात् । तथाहि- 'यत्र गृहाद् निर्गतश्चैत्रस्तत्र किं मैत्र आसीत् ?' इति केनापि पृष्टः क्षणं ध्यात्वा वदति'नासीत् तत्र मैत्रः' इति । तत्र मानास्तिताबुद्धौ ज्ञातैव सा करणम् । न हीयं स्मृतिः, गृहसंनिकर्षकाले मैत्रास्मरणेन तदभावाननुभवात् । नापि प्रत्यक्षम् , गृहासनिकर्षेऽपि जायमानत्वादिति । 'प्रकृताभावज्ञानं भावभूतकरणसचिवमनोजन्यम् , बहिर्विषयकालौकिकेतरज्ञानत्वात्' इति चाप्रयोजकम् ।
अथ यद् यत्पतियोगिग्राहकं तत् तदभावग्राहकम् , यथाऽनुमानादिकम् , भवति चेन्द्रियमपि प्रतियोगिग्राहकम् , अतस्तदभावग्राहकमिति चेत् । न, वाच्यताग्राहकोपमाने व्यभिचारात् । न च वाच्यतातिरिक्तं प्रतियोगिनो विशेषणं देयम् , तथापि प्रतियोगिग्राहकत्वस्य सदभावग्राहकत्वेऽतन्त्रत्वात् , अनन्यथासिद्धत्वस्योपाधित्वाच्च । न च व्यापारेणाधिकरणप्रत्यक्षेण, इन्द्रियस्य संयोगादिनेव नान्यथासिद्धत्वमिति वाच्यम् ; अभावज्ञान इन्द्रियजन्यत्वसिद्धौ तद्वंटितैतव्यापारत्वसिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयात् । न चाभावभ्रमे दुष्टकरणजन्यत्वावश्यकत्वादिन्द्रिय एव पित्तादिना दुष्टताया उप
Jan Education Inteman
For Private
Personel Use Only
hellorary.org