SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ शाखवातासमुच्चय: ॥३५०॥ न चैष तस्य धर्मत्वं पदवत् प्रतिपद्यते' ।" इति । - सटीकः। ततो 'नास्ति' इति ज्ञाने फले प्रतियोगिग्रहणपरिणामाभावरूपम् , हानादिबुद्धिरूपे च फलेऽन्यवस्तुज्ञानरूपमभावाख्यं स्तबकः । प्रमाणमष्टव्यम् । तदुक्तम्-- O॥१०॥ "प्रत्यक्षादेरनुत्पत्ति प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वाऽज्यवस्तुनि' ॥१॥" इति । न चैवमभावज्ञान इन्द्रियान्वय-व्यतिरेकानुविधानं न स्यादिति शङ्कनीयम् , तस्याधिकरणग्रहणोपक्षीगत्वात , अधिकरणग्रहण-प्रतियोगिस्मरणयोस्तत्र हेतुत्वात् । तदुक्तम्-- "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ १॥" इति ।। न चाधिकरणज्ञानस्य हेतुत्वेऽन्धस्यापि त्वगिन्द्रियोपनीते घटादौ नीलाद्यभावग्रहः स्यादिति वाच्यम् । प्रतियोगिग्राहके। न्द्रियजन्याधिकरणज्ञानस्य तथात्वात् । न चैवं त्वगिन्द्रियोपनीते वायौ रूपाभावप्रतीत्यनुदयप्रसङ्गः, रूपानुपलम्भेन तदभावानुमानात् । न च हेतोरपि दुर्घहत्वम् , उपलम्भस्य तवातीन्द्रियतया तदभावस्याज्ञातानुपलब्ध्यगम्यतया ज्ञातानुपलब्धिगम्यत्वेऽनवस्थानात ; प्राकट्याभावस्यापि रूपाभावतुल्यतया तेन तदनुमानायोगात्; काय-वाग्व्यवहाराभावेऽप्युपेक्षाज्ञानसत्त्वाद् व्यवहाराभावेनापि तस्याननुमेयत्वादिति वाच्यम् , मनोजन्यवायुज्ञानसत्त्वात् , पाकव्याभावेन मनोग्राह्येण रूपानु. मुद्रितश्लोक० पृ० ४८४ । २ मुद्रितश्लोकवा० पृ० ४७५। ३ सप्तम्यन्तम् , एवमुत्तरत्रापि । ४ मुद्रितश्लोकवा० पृ. ४८२ । ॥३५॥ साजरा Jain Education on : For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy