________________
COIDIODADDRRIPPAPERS जानकापसावरपरकाATE
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥११॥" इति । फलितमाह- प्रमाणपञ्चकाऽवृत्तेः- पश्चानामपि प्रमाणानां विधिग्राहिणामप्रवृत्तेः, तत्र- सर्वज्ञे, अभावप्रमाणता- अभावप्रमाणात् सर्वज्ञाभावनिश्चय एवेति भावः । उक्तं च
"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ, तत्राभावप्रमाणता ॥१॥" इति ।
न चाभावस्य पृथक्प्रमाणत्वमसिद्धम् , अभावग्राहिणस्तस्य पार्थक्यावश्यकत्वात् । न हीन्द्रियेणाभावज्ञानं जनयितुं शक्यम् , भावांशेनैवेन्द्रियस्य संयोगात् । न च धर्म्यभेदाद् भावांशेन सहाभावांशस्याभेदे सतीन्द्रियसंयोगोपपत्तिः, अभिने धर्मणि रूप-रसयोरिव भावा-ऽभावांशयोरन्योन्यं भेदात् । तदुक्तम् -
"न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥
ननु भावादभिन्नत्वात् संप्रयोगोऽस्ति तेन च । न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः॥२॥" न चैवं तदभावज्ञानमनुमानम् , लिङ्गाभावात् । तदुक्तम्"न चाप्यस्यानुमानत्वं लिङ्गाभावात् प्रतीयते । भावांशो ननु लिङ्गं स्यात्तदानीमजिघृक्षणात् ॥१॥
अभावावगतेजन्म भावांशे ह्यजिघृक्षिते । तस्मिन् प्रतीयमाने तु नाभावे जायते मतिः ॥२॥ , मुद्रितश्लोकवार्तिके पृ० ४७३ । २ मुद्रितश्लोक० पृ० ४.७९ ।
Jain Educationala
For Private & Personel Use Only
www.jainelibrary.org