________________
शास्त्रवार्ता
समुच्चयः ॥३४९॥
सटीकः। सबकः। ॥१०॥
पाराकम्पपरापूपरम्पटलमSEANRAORAN
अर्थापत्यापि न सर्वज्ञो गृह्यते, यतः सर्वोऽर्थः- धर्मदेशनादिः, तं विनापि- सर्वज्ञं विनापि, उपपद्यते बुद्धादीनां स्वमोपलब्धार्थोपदेशतुल्यस्य व्यामोहपूर्वकस्य, मन्वादीनां च साङ्गाध्ययनसमासादितव्युत्पत्तिविशेषाऽऽकलितनिखिलवेदार्थानां सम्यग्ज्ञानपूर्वकस्योपदेशस्योपपत्तेः तदिदमुक्तं भट्टेन
"सर्वज्ञो दृश्यते तावद् नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत् ॥ १॥ न चागमविधिः कश्चिद् नित्यः सर्वज्ञबोधकः । न च मन्त्रार्थवादाना तात्पर्यमवकल्प्यते ॥ २॥ तच्चान्यार्थप्रधानैस्तैस्तदस्तित्वे विधीयते । न चानुवादितुं शक्यः पूर्वमन्यैरबोधितः ॥ ३॥ अनादिरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ ४ ॥ अथ न तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥५॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता । कथं तदुभयं सिद्ध्येत् सिद्धमूलान्तराहते ? ॥ ६॥ असर्वज्ञमणीतात्तु वचनाद् मूलवर्जितात् । सर्वज्ञमवगच्छन्तः स्ववाक्यात् किं न जानते. ॥७॥ सर्वज्ञसदृशं कश्चिद् यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ ८॥ उपदेशो हि बुद्धादेर्धर्मा-ऽधर्मादिगोचरः । अन्यथा नोपपद्येत सार्वश्यं यदि नो भवेत् ।। ९॥ बुद्धादयो ह्यवेदशास्तेषां वेदादसंभवः । उपदेशः कृतोऽतस्तैामोहादेव केवलात् ॥१०॥
॥३४९॥
KARI Jain Education International
For Private & Personel Use Only
www.jainelibrary.org