________________
वाच्यः । न च सामान्योपग्रहाद् दोषोद्धारः, अतिविलक्षणव्यक्त्योरेकसामान्यासिद्धः, अन्यथाऽतिप्रसङ्गादिति ॥ २ ॥ न चागमेन, यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥३॥
न चागमेन 'सर्वज्ञो गृह्यते' इत्यनुपङ्गः, यत्- यस्मात् , असौ- आगमः, विध्यादिप्रतिपादकर-विधि-निषेधबोधकःअनित्यादागमात् तसिद्धिः स्यात् , नित्याद् वा ? । नायः, अन्योन्याश्रयात्, सर्वज्ञसिद्धौ हि कृत्रिमस्यागमस्य तत्पणीतत्वेन प्रामाण्यसिद्धिः, तत्सिद्धौ च ततस्तत्सिद्धिः । न चासर्वज्ञप्रणीत आगमः प्रमाणं युज्यते, अन्यथा खवचनादेव तत्सिद्धिः स्यादिति । नापि द्वितीयः, नित्यस्यागमस्य कार्य एवार्थे प्रामाण्यव्यवस्थापनेन सर्वज्ञप्रतिपादने तस्याप्रमाणत्वात् । यश्च हिरण्यगर्भ प्रकृत्य “स सर्ववित् स लोकवित्" इत्यादिरागमः, तस्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः । नापि सकलज्ञस्थानुवादकोऽसौ, पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वादिति भावः ।। अप्रत्यक्षत्वतः कारणात् , नैवोपमानेनापि गम्यते सर्वज्ञः, तस्य सादृश्यविषयत्वात् , सादृश्याश्रयदर्शननान्तरीयकत्वाच; पदवाच्यत्वविषयकत्वे च तस्यात्रोपयोग एव दूरे ॥३॥ | नार्थापत्यापि सर्वोऽर्थस्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥४॥
१ ख.ग.प.च. 'भाव्यः'। २ क. 'कः, अयं भावः- अ' ।
For Private Personal Use Only
www.jainelibrary.org
Jain Education Intematona