________________
शानवातासमुदयः। ॥३४८॥
सटीकः। स्तबका। ॥१०॥
अत्रापि-निरूपितसम्यगुपायक्रमे मोक्षवादेऽपि, अभिदधति- बदन्ति, अन्ये-मीमांसकाः, यदुत- सर्वज्ञो नैव घिद्यते । कुतः ? इत्याह- तद्ग्राहकममाऽभावात्- सर्वसाधकप्रमाणाभावात् । इति प्रतिज्ञातहेतुसमाप्त्यर्थः । किंभूता अन्ये ? इत्याह-न्यायानुसारिणः- वक्ष्यमाणतर्काग्रहमात्रपराः ॥ १॥
___ तद्ग्राहकप्रमाणसामान्याभावे तद्विशेषाभावं हेतुं 'विवेचयन्नाहप्रत्यक्षेण प्रमाणेन सर्वक्षो नैव गृह्यते। लिङ्गमप्यविनाभावि तेन किञ्चिद् न दृश्यते ॥२॥
प्रत्यक्षेण प्रमाणेन नैव सर्वज्ञो गृहने, तद्धि प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसंतानवतिसंवेदनमात्रेऽप्यशक्तम्, किं पुनरनन्तातीता-ऽनागत-वर्तमान-सूक्ष्मा-ऽन्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदनविशिष्टस्याऽसतः पुरुपविशेषस्य परिच्छेदे ? इति । लिङ्गमपि तेन- सर्वज्ञेन सह, किश्चिदविनाभावि-निश्चितप्रतिबन्धम् , न दृश्यते । न हि तदआहे तत्सत्वेन सह हेतोः प्रतिबन्धः पक्षधर्मत्वं वा तस्य निश्चेतुं शक्यत इति । किञ्च, सर्वज्ञोऽनुमानाद् विशेषेण साध्यः, अविशेषेण वा ? । आये व्यभिचारः। द्वितीये खाभीप्सितार्हत्सर्वज्ञासिद्धिः । न च 'सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् । अग्न्यादिवत्' इति हेतोः सर्वज्ञसिद्धिः, सकलपदार्थसाक्षात्कार्येकज्ञानप्रत्यक्षत्वस्य साध्यत्वे दृष्टान्तस्य साध्यवैकल्यात् । प्रतिनियतविषयानेकज्ञाने प्रत्यक्षत्वस्य साध्यत्वे च बाधः, सिद्धसाधनं वा । एवं प्रमेयत्वहेतावपि विकल्प्य दोषो
१ ख.ग.प.च. 'विचिन्तय'। २ ख.ग.घ.च. 'मपि किश्चित् तेन सर्वज्ञेन सहाविना' ।
||३४८॥
Jain Educaton Inters
For Private & Personel Use Only
Alainelibrary.org