________________
शास्त्रवार्ता- समुच्चयः ॥३६२॥
सटीकः । स्तबकः। ॥ १०॥
SAPAN
न, इदंत्वाद्यवच्छिन्ने गवयपदवाच्यत्वोपमिती गवयपदवाच्यत्वधर्मितावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वात् । अस्तु वाऽनुमि- तिविशेषे परामर्शविशेषवदुपमितिविशेषे तत्तज्ज्ञानानां हेतुत्वम् , अन्यथा तत्तदप्रामाण्यज्ञानाभावनिवेशानुपपत्तेः' इत्याहुः ।
वयं तु ब्रूमः- गवये गोसादृश्यज्ञानं न प्रत्यक्षम् , अस्पष्टत्वात , 'उपमिनोमि' इति विलक्षणानुभवाच्च; किन्तु प्रत्यभिज्ञाविशेष एव, उपमितित्वस्य प्रत्यभिज्ञात्वव्याप्यत्वात् , गवये गोसादृश्यज्ञाने गवि गवयसादृश्यपरिच्छेदोऽपि लिङ्गादिप्रतिसंधानानपेक्षत्वाद् नानुमानिकः, किन्तु विचित्रक्षयोपशमाधीनस्तस्यैव समानवित्तिवेद्यपर्यायग्रहपरिणामः । संज्ञा-संज्ञिसंबन्धप्रतीतिरपीत्थमेवोपपादनीया, प्रतीतगवयपदवाच्यत्वोपलक्षणताकस्य गोसादृश्यस्य ग्रहेऽतिदेशवाक्यार्थस्मरणे च सति | गवयं प्रति व्यापारित लोचने तथापत्यभिज्ञावरणक्षयोपशमात् 'अयं गवयपदप्रवृत्तिनिमित्तवान्' इति परिच्छेदोपपत्तेः; अन्यथा 'कररेखाविशेषवान् शतवर्षजीवी' इति वाक्यार्थ प्रतिसंदधतः कचित् पुरुषे कररेखाविशेषोपलम्भे तत्र 'अयं शतवर्षजीवी' इत्यनुसंधानमपि प्रमान्तरं स्यात् , इति तत्रापि प्रमाणान्तरमन्वेषणीयं देवानांप्रियेण । अथात्र 'कीदृग्लिङ्गः शतवर्षजीवी? इति प्रश्ने 'कररेखाविशेषवान् शतवर्षजीवी' इत्युत्तरवाक्यं व्याप्तिपरम् , इति कररेखाविशेषणलिङ्गेन शतवर्षजीवित्वपनुमीयत इति चेत् । न, लिङ्गाद्यनुसंधानाभावात् । अन्यथा प्रकृतेऽपीदृशक्रमस्य सुवचत्वात् । 'इन्द्रियव्यापाराभावेऽप्युपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसंधानवलात् समयपरिच्छेदोपपत्तेने प्रत्यभिज्ञानमेतत्' इति तु 'प्रत्यभिज्ञा प्रत्यक्षविशेषः' इति वदतां दूषणम् , नास्माकमत्र परोक्षभेदयादिनाम् । हेतुभेदश्चात्र नाधिक्यसाधकः, प्रत्यक्षविशेषे चाक्षुषादौ चक्षुरादिहेतुभेदवत् प्रत्यभिज्ञाविशेषेऽतिदेशवाक्यादिहेतुभेदोपपत्तेः । नन्वेवमतिदेशवाक्यानुभवान
॥३६२॥
Jain Education in
a
For Private
Personal Use Only
www.jainelibrary.org