SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः ॥३६२॥ सटीकः । स्तबकः। ॥ १०॥ SAPAN न, इदंत्वाद्यवच्छिन्ने गवयपदवाच्यत्वोपमिती गवयपदवाच्यत्वधर्मितावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वात् । अस्तु वाऽनुमि- तिविशेषे परामर्शविशेषवदुपमितिविशेषे तत्तज्ज्ञानानां हेतुत्वम् , अन्यथा तत्तदप्रामाण्यज्ञानाभावनिवेशानुपपत्तेः' इत्याहुः । वयं तु ब्रूमः- गवये गोसादृश्यज्ञानं न प्रत्यक्षम् , अस्पष्टत्वात , 'उपमिनोमि' इति विलक्षणानुभवाच्च; किन्तु प्रत्यभिज्ञाविशेष एव, उपमितित्वस्य प्रत्यभिज्ञात्वव्याप्यत्वात् , गवये गोसादृश्यज्ञाने गवि गवयसादृश्यपरिच्छेदोऽपि लिङ्गादिप्रतिसंधानानपेक्षत्वाद् नानुमानिकः, किन्तु विचित्रक्षयोपशमाधीनस्तस्यैव समानवित्तिवेद्यपर्यायग्रहपरिणामः । संज्ञा-संज्ञिसंबन्धप्रतीतिरपीत्थमेवोपपादनीया, प्रतीतगवयपदवाच्यत्वोपलक्षणताकस्य गोसादृश्यस्य ग्रहेऽतिदेशवाक्यार्थस्मरणे च सति | गवयं प्रति व्यापारित लोचने तथापत्यभिज्ञावरणक्षयोपशमात् 'अयं गवयपदप्रवृत्तिनिमित्तवान्' इति परिच्छेदोपपत्तेः; अन्यथा 'कररेखाविशेषवान् शतवर्षजीवी' इति वाक्यार्थ प्रतिसंदधतः कचित् पुरुषे कररेखाविशेषोपलम्भे तत्र 'अयं शतवर्षजीवी' इत्यनुसंधानमपि प्रमान्तरं स्यात् , इति तत्रापि प्रमाणान्तरमन्वेषणीयं देवानांप्रियेण । अथात्र 'कीदृग्लिङ्गः शतवर्षजीवी? इति प्रश्ने 'कररेखाविशेषवान् शतवर्षजीवी' इत्युत्तरवाक्यं व्याप्तिपरम् , इति कररेखाविशेषणलिङ्गेन शतवर्षजीवित्वपनुमीयत इति चेत् । न, लिङ्गाद्यनुसंधानाभावात् । अन्यथा प्रकृतेऽपीदृशक्रमस्य सुवचत्वात् । 'इन्द्रियव्यापाराभावेऽप्युपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसंधानवलात् समयपरिच्छेदोपपत्तेने प्रत्यभिज्ञानमेतत्' इति तु 'प्रत्यभिज्ञा प्रत्यक्षविशेषः' इति वदतां दूषणम् , नास्माकमत्र परोक्षभेदयादिनाम् । हेतुभेदश्चात्र नाधिक्यसाधकः, प्रत्यक्षविशेषे चाक्षुषादौ चक्षुरादिहेतुभेदवत् प्रत्यभिज्ञाविशेषेऽतिदेशवाक्यादिहेतुभेदोपपत्तेः । नन्वेवमतिदेशवाक्यानुभवान ॥३६२॥ Jain Education in a For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy