________________
तर झटित्येव सदृशपिण्डदर्शन उपमितिर्न स्यात् , अनुभव-स्मरणोत्तरमेव प्रत्यभिज्ञानोपगमादिति चेत् । न स्यादेव यदि । KI श्रुतोपयोगानुपरमः, तदुपरमे तु स्मृतिसंपच्या स्यादेवेति दिग् ॥ १६ ॥
अर्थापत्यापि तद्ग्रहं प्रतिपादयितुमाहशास्त्रादतीन्द्रियगतेरापत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते॥१७॥
शास्त्रात्- वेदात् , अतीन्द्रियगतेः- धर्मा-ऽधादिपरिच्छेदात् , अर्थापत्यापि- परमार्थनीत्या, गम्यते सर्वज्ञः । न हि तद्वाच्यवाचकसाक्षात्कारिव्यतिरेकेण सम्यक्शास्त्रादतीन्द्रियार्थगतिरित्यर्थात् तत्सिद्धिरिति । इत्थं चैतदङ्गीकर्तव्यम् । अन्यथा, तत्र- अतीन्द्रियार्थे, नाश्वासः- 'इदमित्थमेव' इत्येवम् , छमस्थस्य- अक्षीणावरणस्य प्रमातुः, उपजायते, वक्ष्यमाणरीत्या
शक्तितात्पर्यनिश्चयाभावात् , निश्चितेऽप्यावरणदोषात संशयाद्युत्पत्तेश्च । ज्ञानावरणप्रकृतिकवाज्ज्ञानावरणकर्मणः सर्वज्ञमूलER कत्वनिश्चयाच तन्निवृत्तिः सुघटा, "तैमेव सच्चं" इत्याद्यागमपापाण्यात् । वेदमूलकत्वेन तु न तन्निवृत्तिः, वेदमूलकत्वे.
ऽव्यभिचारित्वव्याप्यत्वस्य वेदेनाबोधनात् । अन्यतश्चानाश्चासादिति स्फुटीभविष्यत्युपरिष्टात् । एवं वचनविशेषान्यथानुपपतिरूपयाप्यर्थापत्या सर्वज्ञसिद्धिर्भावनीया ।
अथासर्वज्ञत्व-वक्तृत्वयोर्वति-धूमयोरिव नियतानुकृतान्वय-व्यतिरेकत्वेन हेतुहेतुमद्भावात् कथमेतत् ? । न च विवक्षा1 तदेव सत्यम् ।
ब
Jain Education
www.jainelibrary.org
For Private Personal Use Only
na