________________
JO
शाखवार्ता समुच्चयः।
सटीकः। स्तबकः। ॥१०॥
॥३६॥
या एव वचनहेतुत्वम् , तदभावेऽसर्वज्ञत्व रागादिसद्भावेऽपि वचनाभावेन व्यभिचारादिति वाच्यम् । विवक्षायामपि व्यभिचारोपलब्धेः, अन्यविवक्षायामन्यशब्ददर्शनात् , अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात् । अर्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचार इति चेत् । न, स्वमावस्थायामन्यगतचित्तस्य वा तदभावेऽपि वक्तृत्वसंवेदनात् । न चासर्वज्ञत्वादिना वचनस्यान्वयासिद्धावपि 'तदभावे सर्वत्र वक्तृत्वं न भवति' इत्यत्र प्रमाणाभावात् प्रत्यक्षा-ऽनुपलम्भसाध्यः कथं हेतु हेतुमद्भावनिश्चयः ? इति वाच्यम्, वह्निधूमस्थलेऽप्येवं सुवचत्वात् , तर्कवलेन नियमस्य चोभयत्र सुग्रहत्वादिति चेत् ।
न, वह्नि-धूमयोरिवासर्वज्ञत्व-वक्तृत्वयोः कार्यकारणभावाभावात; तथाहि- 'वहिसद्भावे धूमो दृष्टस्तदभावे न दृष्ट:' इत्येतावतैव न धूमस्याग्निकार्यत्वम् , किन्तु वह्निधर्मानुविधायित्वम् , “कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः" इति वचनात् । तच्च न दर्शना-दर्शनमात्रगम्यम् , किन्तु विशिष्टात् प्रत्यक्षा-ऽनुपलम्भाख्यात् प्रमाणात् प्रतीयते । प्रत्यक्षमेव कार्यकारणाभिमतपदार्थविषयं तद्विविक्तान्यवस्तुविषयं च प्रत्यक्षाऽनुपलम्भशब्दाभिधेयम् । कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तद्भावसाधकम् , कदाचिच्च प्रत्यक्षपुरस्सरोऽनुपलम्भः । तत्रायेन येषां कारणाभिमतानां संनिधानात् मागनुपलब्धं धूमादि यत्संनिधानादुपलभ्यते तस्य तत्कार्यता व्यवस्थाप्यते, 'बयतिरिक्तकारणसमवहितो धृमो यद्यग्निजन्यो न स्यात् , अग्निसंनिधानात् प्रागपि तत्र देशे स्यात् , अन्यतो वाऽगच्छेत्' इत्यापाद्यव्यतिरेकशङ्काया अनुपलम्भेन निरासात् । संनिहितधूमे जायमानस्य वह्निजन्यत्वनिश्चयस्य सामान्योपयोगेन सामान्ये पर्यवसानात् । एतेन 'प्रागनुपलब्धस्य रासभस्य कुम्भकारसंनिधानानन्तरमुपलभ्य
३६३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org