________________
Raceclope
मानस्य तत्कार्यता स्यात्' इति निरस्तम् । तथाहि-तत्रापि यदि रासभस्य तत्र प्रागसत्वम् , अन्यदेशादनागमनम् , अन्याकारणत्वं च निश्चेतुं शक्येत तदा स्यादेव कुम्भकारकार्यता, केवलं तदेव निश्चेतुमशक्यामिति । द्वितीयेन यत्संनिधाने प्रवर्तमानं तत्कार्य दृष्ट तावतां मध्ये यस्याभावात् तद् नोपलभ्यते तत्र तत्कार्यत्वं निश्चीयते । न चाग्नि-काष्ठादिसंनिधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽस्ति, अग्न्यादौ त्वपनीते भवत्यनुपलम्भः । इति परस्परसहितौ प्रत्यक्षा-ऽनुपलम्भौ तन्निबायको । सर्वकालमनिसंनिधाने भवतश्च धूपस्यानग्निजन्यत्वं कदाचिदजन्यत्वेनाहेतुफत्वेन, अदृश्यहेतुकत्वेन वा शक्येत, तत्र कादाचित्कत्वा-ऽग्न्याद्यन्वयानुविधायित्वज्ञानेन तन्निवृत्तिरिति दिग् ।
न चायं प्रकारोऽसर्वज्ञत्व-वक्तृत्वयोः संभवति, असर्वज्ञत्वधर्मानुविधानस्य वचनेऽदर्शनात्; तथाहि- असर्वज्ञत्वं यदि पर्युदासेन किश्चिज्ज्ञत्वमुच्यते तदा तद्धर्मानुविधानादर्शनाद् न तजन्यता वचनस्य । न हि किञ्चिज्ज्ञत्वतरतमभावाद् वचनस्य तरतमभाव उपलभ्यते, किश्चिज्ज्ञत्वपकर्षवत्स्वत्यल्पविज्ञानेषु कृम्यादिषु वचनोत्कर्षानुपलम्भात् । यदि च प्रसज्यमा तिषेधेनासर्वज्ञत्वं सर्वज्ञत्वाभाव उच्यते, तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात् , न च कदाचनापि तत् तत्रोपलभ्यते, ज्ञानातिशयवत्स्वेव सकलशास्त्रव्याख्यातृषु वचनातिशयदर्शनात् । अतो ज्ञानप्रकर्षतारतम्यरूपज्ञानधर्मानुविधानदर्शनात तत्कार्यता, धूमस्येवाग्न्यादिसामग्रीगतसुरभिगन्धाद्यनुविधायिनोऽग्न्यादिजन्यता, इति यथोक्तपत्यक्षा ऽनुपलम्भाभ्यामेतावद्व्यापारकज्ञानस्य स्पष्टताननुभवेनोहाख्येन प्रमाणान्तरेण व्यवस्थाप्यत इति । यद् यनिश्चिताविसंवादि वचनं तत् तदविसंवा. दिज्ञानविशेषपूर्वकतां विना नोपपन्नम् , इत्यात्मन्येवासकृद् निश्चितम् , इत्यविसंवादिवचनविशेषोऽविसंवादिज्ञानवन्तं पुरुष
For Private Personal Use Only
Narijainelibrary.org
Jain Education inte