________________
सटीकः। स्तबकः।
शास्त्रवार्ता- विशेष सर्वज्ञमर्थापयतीति सिद्धम् । तदुक्तम्समुच्चयः
“यद् यस्यैव गुणान् दोषान् नियमेनानुवर्तते । तन्नान्तरीयकं तत् स्यादतो ज्ञानोद्भवं वचः॥१॥” इति । ॥३६४॥
इदं चाभ्युपगम्योक्तम् , वस्तुतोऽर्थापत्तिर्नानुमानादतिरिच्यते; तथाहि- 'देवदत्तस्य जीवित्वे सति गृहेऽसत्वं बहिः A सत्त्वं विनाऽनुपपद्यमानं बहिः सत्त्वमर्थापयति' इति परेषामभिमानः । तत्र वहिः सचं विनाऽनुपपत्तिर्बहिःसत्त्वाभावव्यापकी
भूताभावप्रतियोगित्वं व्यतिरेकव्याप्तिरेव, इति 'देवदत्तो बहिः सन् , जीवित्वे सति गृहासत्त्वात् , यो नैवं स नैवम् , यथा गृहवर्ती' इति व्यतिरेक्यनुमानमस्तु, 'बहित्तिमदत्' इति दृष्टान्तेन कदाचिदन्वय्येव वा । अथ गृहे संनिकृष्ट जीविदेवदत्ताभावो गृहीतो देवदत्ते बहिःसत्त्वकल्पकः, न चेदमनुमानम् , वैयधिकरण्यादिति चेत् । न, विशिष्टेन सह गृहीतान्यथानुपपत्तिकेन लिङ्गेन व्यधिकरणेनापि विशिष्टानुपानोपपत्तेः, 'उदेष्यति शकटम् , कृत्तिकोदयात्' 'उपरि सविता, भूमेरालोकवत्ववात्' इत्यादौ तथादर्शनात्, पक्षधर्मताया अनुमितावतन्त्रत्वात् । इष्यते च परेणाप्येतत्,
"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा । सर्वलोकमसिद्धा, न पक्षधर्ममपेक्षते ॥१॥" इत्यभिधानात् । _ 'तुल्यवित्तिवेद्यतया तदुत्तरं मनसा वा गृहीतेन गृहनिष्ठाभावप्रतियोगित्वेन देवदत्तनिष्ठेनानुमानाद् न वैयधिकरण्यम् । 'उदेष्यति शकटम्' इत्यादावप्येतत्काले संनिहितशकटोदयत्वम्, भूमौ संनिहितसवितृकत्वं च साध्यते' इति तु यौगाः । तच्चि- न्त्यम् , तथापि 'बहिर्देशो देवदत्तवान्' इत्यस्यानुपपत्तेः, यथोहमनुमितिव्यवस्थाया एव न्याय्यत्वात् , विलक्षणानुमितौ वि
३६४
Jain Education
anal
For Private 3 Personal Use Only
www.jainelibrary.org