________________
लक्षणशक्तिमत्त्वेन तत्तज्ज्ञानानां हेतुत्वादित्यन्यत्र विस्तः। एतेन 'अस्त्वन्वयव्याप्तिज्ञानजन्याऽनुमितिः, व्यतिरकव्याप्तिज्ञानजन्या त्वर्थापत्तिः, अन्यथा परस्परव्यभिचारेण हेतुत्वस्याप्यसंभवात्' इति निरस्तम् , प्रमाणद्वयसमाहारे परस्परविरोधित्वकल्पने गौरवात् , अनुभूयमानानुमित्यपलापप्रसङ्गाच्च । 'व्यतिरेकिणी वयभावाभाववादिना, अन्वयिनस्तु वह्नयादिनाऽनुमितिः' इत्यन्ये । तत्र नियमश्चिन्त्यः। अथ व्यतिरेकव्याप्तिज्ञानजन्यज्ञाने 'नानुमिनोमि किन्त्वर्थापयामि' इत्यनुव्यवसायात् पार्थक्यमेवास्या इति चेत् । न, 'नानुभवामि किन्त्वनुमिनोमि' इतिवदस्य पार्थक्याव्यवस्थापकत्वात् , अन्यथाऽन्वयव्यतिरेकिणः प्रमाणान्तरत्वप्रसङ्गात , अनुभवापलापस्यान्यत्रापि तुल्यत्वाचेति दिग् ।
अथ जीवद्गृहाभावग्रहसमय एव बहिःसत्वग्रहात् प्रमेयानुप्रवेशदोषाद् नेदमनुमानमिति चेत् । न, असिद्ध धूमाभावग्रहोत्तरमेव दहनप्रतीतिवज्जीवतो गृहाभावग्रहोत्तरमेव बहिःसत्चप्रतीतेः । अथ 'देवदत्तः कचिदस्ति, जीवित्वात्' इत्यनुमानजन्यं कचित्त्वेन गृहविषयकं ज्ञानम् , अनुपलब्धिजन्यं च 'गहे नास्ति' इति ज्ञानम् , इत्यनयोर्विरोधज्ञानात् करणीभूतात् । 'कचित्' इत्यत्र गेहान्यविषयकत्वार्थापत्तिरविरोधापादिका जायत इति चेत् । न, तयोज्ञानयोरेककालीनत्वेनाविरोधात् । 'कचिदिति ज्ञानं यदि गेहविषयकं स्याद् 'गेहे नास्ति' इति ज्ञानं विरुद्धं स्यात्' इति विरोधापादनं च 'कचित्' इति न गेहविपयकम् , 'गेहे नास्ति' इत्यविरुद्धत्वादित्यनुमानात्थापकमेव । 'गृहसत्त्व-गृहासत्त्वयाविरोधो गृहासत्त्व-बहिःसत्त्वयोव्याप्तियोतक एव' इत्यन्ये । अथ सामान्यानुमितिसामग्यमेवैकविशेषवाधज्ञानकरणिका विशेषान्तरपकारिकार्थापत्तिरिति चेत् । न, एवं सति पर्वते वह्नयनुमितेरपि जायमानायाः शिखरावच्छेदेन बाधज्ञानाद् नितम्बावच्छेदेन पर्यवस्यन्त्याः, सामान्यप्रत्यक्षादर
नि
Jain Education Inte
For Private & Personel Use Only
PRAww.jainelibrary.org