________________
शास्त्रवातोंसमुच्चयः । ॥ ३६५॥
Jain Education Intern
प्येकविशेषबाधाद् विशेषान्तरपर्यवसायिनोऽर्थापत्तित्वप्रसङ्गादिति दिग् ॥ १७ ॥ यतश्चैवम्, अत आह—
प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाप्यभावप्रामाण्यमिति स्वान्ध्यविजृम्भितम् ॥ प्रमाणपञ्चकाऽवृत्तिः- भावोपलम्भकयावत्प्रमाणाविषयत्वम् एवम् उक्तरीत्या, तत्र- सर्वज्ञे, न युज्यते- न घटते; तथापि - एवमपि व्यवस्थिते, अभावप्रामाण्यम्- अभावप्रमाणस्य सर्वज्ञाभावनिश्चायकत्वम् इति अदः, स्वान्ध्य विजृम्भितम् - स्वाज्ञानविलसितम् सदुपलम्भकसाम्राज्येनाभावप्रमाणस्यैवानुत्थानात् । वस्तुतोऽभावस्य पृथक्प्रमाणत्वमेवासिद्धम्, भावांशग्राहिणेन्द्रियेणैवाभावांशग्रहणात् । न च संबन्धाभावः, योग्यतारूपस्य तस्याभावायोगात् संयोगस्य च भावांशोपलम्भेऽप्यतन्त्रत्वात्, चक्षुषोऽप्राप्यकारित्वव्यवस्थितेः । कथमेतदेवम् ? इति चेत् । शृणु, प्रसङ्गसंगतमेतत्तत्वं निरूपयामः
चक्षुर्न प्राप्यकारि, अधिष्ठानासंबद्धार्थग्राह केन्द्रियत्वात् मनोवत् । न चाप्रयोजकत्वम्, संबद्धार्थग्राहकत्वे तस्य वह्निजलावलोकनादिना दाह-केदादिप्रसङ्गात्, अधिष्ठानाच्चक्षुषो विभागेऽन्यत्वप्रसङ्गाच्च । अथ नयनाद् नायना रश्मय एव निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमापति, सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्नयादिभिर्दाहादयो न भविष्यन्तीति चेत् । न, चक्षुषस्तैजसत्वस्यैवासिद्धेः । न च 'चक्षुस्तैजसम्, रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्, प्रदीपवत्' इत्यनुपा१ मुद्रितमूलपुस्तके 'ध्यान्ध्यवि' इति पाठः ।
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ १० ॥
॥ ३६५॥
www.jainelibrary.org