________________
SO989
नात तसिद्धिः, चक्षु-विषयसंयोगेनानकान्तिकत्वात् । 'द्रव्यत्वे सति' इति विशेषणेऽप्यञ्जनविशेषेणानै कान्तिकत्वाच्च । एतेन 'रूपसाक्षात्कारासाधारणकारगं तैजसम् , रसाव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशकत्वात् , प्रदीपवत्' इत्यपि निरस्तम् । 'अञ्जनादिभिन्नत्वे सति' इति विशेषणदाने चाप्रयोजकत्वात् , अञ्जनादिवच्चक्षुपोऽतैजसत्वेऽध्यक्षतेः, चक्षुः-प्रदीपयोरेकया जात्या व्यञ्जकत्वासिद्धेश्च । ।
अथ चक्षुषोऽमाप्यकारित्वे कुड्यादिव्यवहितस्यापि ग्रहणं स्यात् , असंनिहितत्वाविशेषात् , योग्यता च स्थैर्यपक्षे न परावर्तत इति चेत् । हन्त ! एवं तवापि कथं नायं दोषः, स्फटिकादिव्यवहितग्रहणेऽप्यतिप्रसङ्गस्य दुनिर्वारत्वात् , स्फटिकादिकं निर्भिद्य विषयदेशं यावद् नायनरश्मीनां गमने च तूलपटलादेस्तैः सुतरां सुभेदत्वात् , तूलपटलायन्तरितस्याप्युपलम्भमसङ्गात् । यत् पुनरुदयनेनोक्तम्- 'स्फटिकाद्यन्तरितोपलब्धिः प्रसादस्वभावतया स्फटिकादीनां तेजोगतरपतिबन्धकतया प्रदीपप्रभावदेवोपपन्ना' इति । तद् दूषितं वृद्धैः- प्रसन्नतावन्मूर्तद्रव्यकृतगत्यप्रतिबन्धस्य काप्यदर्शनात , तूलादिना जलादिगत्यप्रतिबन्धस्य प्रशिथिलावयवारभ्यत्वनिमित्तकस्यैव दर्शनात् । स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्त्वा प्रसरन्ति, किन्तु तत्संपर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव तथापरिणतः सर्वतः प्रसरति । अत एव पीतरक्तादिकाचकूपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते । अथ यथा पारदस्याऽयस्पात्रभेदे सामर्थ्यम् , न पुनरलावु| मात्रभेदे, तथा लोचनरोचिषामपि स्फटिकादिभेदे शक्तिर्भविष्यति न तूलपटलभेद इति चेत् । न, प्रत्यभिज्ञावाधात् । तस्मात ol कुड्याद्यन्तरितचाक्षुषजनकक्षयोपशमाभावादेवामदादीनां न तदन्तरितचाक्षुषम् , तादृशक्षयोपशमवतामतिशयितज्ञानिनां तु
in Educanina
For Private Personal use only
alww.jainelibrary.org