Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 790
________________ शास्त्रवार्तासमुच्चयः । ||३७६ ।। पायोगात् तदुक्तम् - “यो धन्यरूपसंवेद्यः संवेद्येतान्यथापि वा । स मिथ्या न तु तेनैव यो नित्यमुपलभ्यते ।। १ ।। " इति । न च ध्वनिधर्मत्वे तारत्वादीनां ग्रहणमप्युपपद्यते, स्पर्शाद्यनन्तर्भावेन स्वगादीनामशब्दधर्मत्वेन च श्रोत्रस्य तत्राव्यापारात् । सन्तु तर्हि ध्वनयो नाभसा इति चेत् । न, तथापि व्यक्तियोग्यतान्तर्भूतत्वाज्जातियोग्यतायाः 'तारोऽयम्' इत्यादौ ध्वन्यस्फुरणे तद्गततारत्वाद्यस्फुरणमसङ्गात् । न चेदेवम्, कत्वादिकमपि वायुगतमेवा रोप्येतेति शब्दैक्यं स्यात्, कादेरपि वा वायुधर्मत्वं स्यात् । अस्त्वेवं को दोषः १ इति चेत् । वायुगतयोग्यधर्मत्वे तद्गतस्पर्शादिवत् त्वचा ग्रहमसङ्गः, अवयत्रिगुणत्वे नित्यस्य, परमाणुगुणत्वे चाग्रहणस्य प्रसङ्गः । किञ्च नित्यत्वे शब्दस्य सर्वदा सर्वोपलब्धिप्रसङ्गः । विजातीयवायुसंयोगादीनां व्यञ्जकत्वं च नित्य सर्वगतस्य गकारादेर्वर्णस्य, श्रोत्रस्य, उभयस्य वाssवारकाणां वायूनामपनयनाद् वर्ण-श्रोत्र- तदुभयसंस्कारक्रमेण वक्तव्यम् । तत्र वर्णसंस्कारपक्ष आवारककृतविज्ञानजनकशक्तिप्रतिबन्धापनयनद्वारा विज्ञानजनकशक्त्याविर्भावने शक्ति-शक्तिमतोः कथञ्चिदभेदाद वर्णस्वरूपमेवाविर्भावितं भवति, इति कथं न वर्णस्य व्यञ्जकजन्यत्वम् ?, जनकसंनिधानप्रागुत्तरकालीनज्ञानजनन जननस्त्रभावभेदावश्यकत्वाच्चेति किमभिव्यक्त्या ? । अपिच, वर्णाभिव्यक्तिपक्षे कोष्ठ्येन वायुना यावद्वेगमभिसर्पता यावान् वर्णविभागोऽपनीतावरणः कृतस्तावत एव श्रवणं स्याद् न समस्तस्य वर्णस्य, इति खण्डशस्तत्प्रतिपत्तिः स्यात् । निर्विभागत्वादेकत्रोत्सारितावरणः सर्वत्रापनीतावरणोऽयमिति चेत् । तर्हि तत एवैकत्रानपनीतावरणः सर्वत्र तथेति मनागपि श्रवणं न स्यात् । अथा Jain Education International For Private & Personal Use Only सटीकः । स्तवकः । ॥ १० ॥ ॥ ३७६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902