________________
शास्त्रवार्तासमुच्चयः ।
||३७६ ।।
पायोगात् तदुक्तम् -
“यो धन्यरूपसंवेद्यः संवेद्येतान्यथापि वा । स मिथ्या न तु तेनैव यो नित्यमुपलभ्यते ।। १ ।। " इति ।
न च ध्वनिधर्मत्वे तारत्वादीनां ग्रहणमप्युपपद्यते, स्पर्शाद्यनन्तर्भावेन स्वगादीनामशब्दधर्मत्वेन च श्रोत्रस्य तत्राव्यापारात् । सन्तु तर्हि ध्वनयो नाभसा इति चेत् । न, तथापि व्यक्तियोग्यतान्तर्भूतत्वाज्जातियोग्यतायाः 'तारोऽयम्' इत्यादौ ध्वन्यस्फुरणे तद्गततारत्वाद्यस्फुरणमसङ्गात् । न चेदेवम्, कत्वादिकमपि वायुगतमेवा रोप्येतेति शब्दैक्यं स्यात्, कादेरपि वा वायुधर्मत्वं स्यात् । अस्त्वेवं को दोषः १ इति चेत् । वायुगतयोग्यधर्मत्वे तद्गतस्पर्शादिवत् त्वचा ग्रहमसङ्गः, अवयत्रिगुणत्वे नित्यस्य, परमाणुगुणत्वे चाग्रहणस्य प्रसङ्गः ।
किञ्च नित्यत्वे शब्दस्य सर्वदा सर्वोपलब्धिप्रसङ्गः । विजातीयवायुसंयोगादीनां व्यञ्जकत्वं च नित्य सर्वगतस्य गकारादेर्वर्णस्य, श्रोत्रस्य, उभयस्य वाssवारकाणां वायूनामपनयनाद् वर्ण-श्रोत्र- तदुभयसंस्कारक्रमेण वक्तव्यम् । तत्र वर्णसंस्कारपक्ष आवारककृतविज्ञानजनकशक्तिप्रतिबन्धापनयनद्वारा विज्ञानजनकशक्त्याविर्भावने शक्ति-शक्तिमतोः कथञ्चिदभेदाद वर्णस्वरूपमेवाविर्भावितं भवति, इति कथं न वर्णस्य व्यञ्जकजन्यत्वम् ?, जनकसंनिधानप्रागुत्तरकालीनज्ञानजनन जननस्त्रभावभेदावश्यकत्वाच्चेति किमभिव्यक्त्या ? । अपिच, वर्णाभिव्यक्तिपक्षे कोष्ठ्येन वायुना यावद्वेगमभिसर्पता यावान् वर्णविभागोऽपनीतावरणः कृतस्तावत एव श्रवणं स्याद् न समस्तस्य वर्णस्य, इति खण्डशस्तत्प्रतिपत्तिः स्यात् । निर्विभागत्वादेकत्रोत्सारितावरणः सर्वत्रापनीतावरणोऽयमिति चेत् । तर्हि तत एवैकत्रानपनीतावरणः सर्वत्र तथेति मनागपि श्रवणं न स्यात् । अथा
Jain Education International
For Private & Personal Use Only
सटीकः । स्तवकः । ॥ १० ॥
॥ ३७६ ॥
www.jainelibrary.org