SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ पुनरुभयत्र सुवचम्, अयुक्तं च, जातिविशिष्टव्यक्तावेककालमेव संवन्धग्रहात् । अथ घूमे धूमत्वजातिसत्त्वाद् धूमत्वविशिष्टे ग्रहोsस्तु, गादौ तु शब्दत्वादिजात्यभावाद् न तद्विशिष्टे शक्तिग्रह इति चेत् । न जातावप्यनुगतव्यवहार सिद्धापा जातेः प्रतिक्षेपायोगात् श्रोत्रग्राह्यत्वादिना तद्वयवहारान्यथासिद्ध्ययोगात्, तस्यातीन्द्रियघटितत्वात् जातेराकृतिव्यङ्ग्यत्वनियमे मानाभावाच । यच्च प्रत्यभिज्ञयैव ज्ञात ज्ञायमानशब्दैक्यमभिहितम् । तदसत् लून- पुनर्जातकेशनखादिष्विव तस्या भ्रान्तत्वात्, अन्यथोत्पाद- विनाशप्रतीत्यनुपपत्तेः, तार-मन्द-शुक-सारिकाप्रभवादिशब्देन नानाविधेष्वपि वर्णेषु प्रत्यभिज्ञादर्शनात् तस्या भ्रमत्वावश्यकत्वाच्च । एतेन 'उत्पाद - विनाशप्रतीतीनामेव भ्रमत्वमस्तु । न चोत्पादविनाशप्रतीतीनां भ्रमत्वकल्पनामपेक्ष्य प्रत्यभिज्ञामात्रस्य तत्कल्पने लाघवम् प्रत्यभिज्ञानामप्यानन्त्यात्, विषयवाहुल्यस्य ज्ञानबाहुल्याप्रयोजकत्वात् । न च 'उत्पन्नो गकारः, विनष्टो गकारः' इति वैधर्म्यज्ञान कालोत्पत्तिकायाः प्रत्यभिज्ञायास्तज्जातीय भेदविषयकत्वम् 'श्यामो नष्टः, रक्त उत्पन्नः' इति ज्ञानकाले 'स एवायं घटः' इति व्यक्त्यैक्यमतीतिस्तु तत्र विशिष्टोत्पादादिप्रतीतेः शुद्धव्यक्त्यभेदाविरोधित्वात्; इह तु शुद्धस्यैव गकारादेरुत्पादादिधीरिति विशेषादिति वाच्यम्; तादृशवैधर्म्यज्ञानाभावकालोत्पन्न पूर्वापरकालीन व्यक्त्यभेदविषयकप्रत्यभिज्ञया तदैक्यसिद्धावुत्पादादिप्रतीतेर्वायुसंयोगाद्युत्पादादिविषयकत्वस्य सुवचत्वात् वहन्यादौ धूमादिव्याप्तिभ्रमवद् नित्येऽपि शब्दे स्वत्वगर्भस्यापि सखण्डोत्पादस्य भ्रमसंभवात् साक्षाद्विरोधिनस्तथाविधोत्पादस्य व्यावर्तकत्वेन गृहीतत्वात् तद्बुद्धेर्व्यक्त्यभेदबुद्ध्यविरोधित्वाच्च' इत्युक्तावपि न क्षतिः । न च तारत्वादिकं ध्वनिधर्म एव शब्द आरोप्यते, न तु शब्दस्य स्वाभाविकं रूपमिति वाच्यम्; तस्य तारत्वादिधर्मवत्तयैव नित्यमनुभूयमानतया तत्र तारत्वायारो Jain Educationtemational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy